SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५४ दण्डविवेकः । याज्ञवल्क्यौये दुर्दष्टानिति वाक्ये द्विगुणदण्डप्रतिपादके वादिनस्तदनगौकाराश्रवणात् सत्यजयिनस्तदसम्भवाच्च सपणश्चेत्यत्र दण्डश्च पणञ्चेति समुच्चयश्रुतिविरोधात् पणस्य प्रौढिप्रयुक्तत्वादन्यत्रापि सम्भवेन वाक्ययोर्विषयभेदस्यावश्यवाच्यत्वात्। __ यो यावन्निह्नवीतेत्यादिना पुनन्यायं विना विना च वादिप्रतिज्ञानं पराजितस्य द्विगुणदण्डप्रतिपादनाच्च । इदन्तु विचारमर्हति तौरितमित्यादौ किमपेक्षया द्वैगुण्यमिति। तत्र केचित्– विवादपदाबैगुण्यन्तस्यैवोपस्थितत्वेन प्रतियोग्याकाङ्क्षापूरकत्वाच्च यो मन्येताजितोऽस्मीत्यादियाज्ञवल्क्यौयेनैकमूलकत्वाच्चेत्याहुः । तन्न- अपहूवादेरुभयत्र समानत्वेऽपि पराजितस्य धृष्टतया वा दुराशयतया वा प्राविवाकादिवचनमनाहत्य पुनर्विवदमानस्यापराधगौरवेण दण्डगौरवस्यौचित्यात् । तस्माद्यत्र प्राथमिको विवादस्तच तद्दिषय एव द्विगुणो दण्डः। यत्र तु पुनर्विवादस्तत्र विवादविषयद्विगुणादपि दिगण इति युक्तं तत्र तस्यैवोपस्थितत्वेन बोधितत्वात् । तथाहि तौरितं साक्षिलेख्यादिना निर्गौतमनुद्धृतदण्डं दण्डपर्यन्ततान्नौतमिति यावदिति व्याचक्ष्यते। अन्यथा द्विगुणदण्डास्थानवैयर्थात् विवादविषया १ क--दण्डगौरववैचित्र्यात् ।। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy