________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्णयोत्तर कृत्यम् ।
३५५
पेक्षया दिगुणदण्डस्य तदनास्थानेऽपि प्राप्तत्वात् गुरौ लधौ चापराधे दण्डसाम्यस्य न्यायविरुद्धत्वाच्च ।
एवञ्च यो मन्येत इत्यादिवाक्येऽपि दिगुणापेक्षयैव द्विगुणो दण्ड इति स्थितम् । । एतेन सपणश्चेदित्यच विवादविषय द्विगुणदण्डास्थानमेव पणपदार्थ इत्यपास्तं तस्य प्राप्तत्वेन प्रतिज्ञानानपेक्षितत्वादण्डञ्च सपणञ्चेति उभयविधिविरोधाच्चेति ।
किञ्चैवं सपण इत्यस्यान्यतः प्राप्तानुवादत्वं प्राप्तम् । तथाच यवाल्यो दण्डो मुनिभिः स्मर्य्यते तत्रापि गुरुतरदण्डपणीकरणाचारो निर्मूलः स्यात् ।
न चानुवन्धो यतः सभ्य इत्याधुक्तं दण्डोत्कर्षनिमित्तं मूलमत्रेति वाच्यं पणं विनापि दण्डोत्कर्षकत्वादिति दिक् ।
इति प्रकीर्णके व्यवहारविषयवर्गः। न शक्यमन्योन्यविरुद्धधर्मिणो गणैश्च वक्तमपि ये प्रकीर्णकाः। उदाहृतास्तत्तदुपाधिकल्पनात्तथाप्यभौष्टार्थझटित्यवाप्तये ॥
इति महामहोपाध्याय वर्द्धमानकृतौ दण्डविवेके
प्रकीर्णकदण्डपरिच्छेदः सप्तमः ।
For Private And Personal Use Only