________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
श्रीविल्वपञ्चान्वयसम्भवेन श्रीमद्भवेशस्य तनूद्भवेन। श्रीवईमानेन विदेहभर्तुः कृते कृतो दण्डविधौ विवेकः ॥ परकृतिमपि दृष्ट्वा निर्मितेऽस्मिन् निवन्धे समुचितवचनोत्था लक्ष्यते कापि लक्ष्मीः। स्फुरति हि कुसुमानां शेखरे योजितानां नव इव समुदायद्योतमानो विनोदः ॥ कल्पतरु कामधेनु हलायुधांश्च धर्मकोषं स्मृतिसार-कृत्यसागर-रत्नाकर-पारिजातांश्च । टोकासहिते हे संहिते मनुयाज्ञवल्क्योक्ते व्यवहारे तिलकञ्च प्रदौपिकाञ्च प्रदीपञ्च ॥ दृष्ट्वा कृतो निवन्धो निर्वधान्निबन्धादेशवर्षेण । तदिमानिमञ्च दृष्ट्वा गुणदोषौ कल्पयन्तु मे सन्तः ॥ दोषोद्दोषणसम्मुखोऽस्तु मुखरो ज्ञात्वाऽर्थतत्त्वं गिराम् सर्वाः पूर्वकृतीविलोक्य विदुषां तोषो निवन्धेऽधुना। तत्तस्मादुभयेऽपि तेन जड़ितास्तुष्णौं चिरादासतामास्तां किञ्च विहाय दूषणरसं लोको गुणग्राहकः ॥
इति विल्वपञ्चकौय-महामहोपाध्याय-धर्माधिकरणिक
श्रीवर्धमानकृतो दण्डविवेकः समाप्तः ।
श्रीगुरवे नमः ।
१ क पुस्तके परिचय 'लोका न सन्ति ।
For Private And Personal Use Only