________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्णयोत्तर कृत्यम् ।
पराजयावगमित-मिथ्यापहवादिनिमित्तं तत्समादिदण्डं पणौकृतञ्चार्थं विवादपदमित्युचितश्चेति त्रयं दाप्यः । धनिकस्तु ऋणवज हयमित्यर्थः ।
अत एव भवदेवेन पुनन्यायं विना सामान्यमाश्रित्योक्तम् । व्यवहारश्चार्थिप्रत्यर्थिदाात् कदाचित् सपणोऽपि भवति यथा यदि मे भङ्गो भवति सहस्रं तदा मे देयमिति।
अत एव तद्यदि कृतपणवन्धो हौयते तदा राज्ञा स्वयं कृतं पणं दाप्यः। स्वयञ्च दण्ड्यः । तदाहेत्युपक्रम्य सामान्यविषयं नारदवचनमवतारितम् ।।
विवादे सोत्तरपदे इयोर्यस्तच होयते। सपणं स्वकृतं दाप्यो विनेयश्चापराजितः ॥ इति। [अत्र सपणञ्चेति विशेषोपादानात् यचैक एव पणं करोति यत्र वैकः शतमन्यः पञ्चाशतं प्रतिजानौते तत्र येन यत् पणोकतं] स एव तावदेव दाप्यो नत्वपरो नाप्यधिकमिति मिताक्षराकारः। इह केचित्,
तौरितच्चानुशिष्टञ्च यो मन्येत विधर्मतः। द्विगुणं दण्डमास्थाय तयैतत् कार्यमुद्धरेत् ॥ इति नारदवचनदर्शनात् यत्र वादिना दिगुणो दण्डः प्रतिज्ञायते तत्रैव तद्दानं स एव च पणः, एवञ्च सपणश्वेत्यादिकमपि पुनायविषयमेव तौरितमित्यादिनैकमूलत्वादिति। तन्न,
१ क पुस्तके [ ] चिहितांशः पतितः ।
45
For Private And Personal Use Only