SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५२ दण्डविवेकः। दुईष्टान् स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिरसम्यविचारितत्वेन शक्यमानानिति मिताक्षरा। विवादादिति-यस्मिन् विवादे पराजितस्य यो दण्डस्तस्मादिगुणमित्यर्थः। तथा तत्रैव, यो मन्येताजितोऽस्मौति न्यायेनापि पराजितः । सभायां तं पुनर्जित्वा द्विगुणं दापयेदमम् ॥ मनुः,स्वामात्याः प्राड्विवाकाश्च ये कुर्य्यः कार्य्यमन्यथा। तत् स्वयं नृपतिः कुर्यात् तान् सहस्रन्तु दण्डयेत्॥ एतदसंख्यातधनविषयं धनव्यतिरिक्तसंग्रहणादिविवादविषयञ्च। तथा उत्कोचग्रहणे ये नियुक्ता इत्यादिना सर्वस्वग्रहणभिधानात्तदितरविषयमेतदिति मनुटीका। याज्ञवल्क्यः , सपणश्चेविवादः स्यात् तत्र होनं प्रदापयेत् । दण्डच्च स्वपणञ्चैव धनिने धनमेव च ॥ पुनायं विनापि यद्यहं परिशोधनं न शोधयामि । यदि वायं समग्रऋणं साधयति तदैतद्राज्ञे ददामौत्येवमाद्यभिधायाधमणे यद्यनेन गृहीतधनं न शोधयति' यदि वाज्यं परिशोधनं न बोधयति तदेतद्ददामौत्यनेन धनिको यत्र विवदते शतपणो विवादस्तत्र पराजितोऽधमर्णः । १ क बोधयामि। २ ददामौत्यभिधाय । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy