________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निर्णयोत्तरकृत्यम् ।
३५१
मनुः,
अर्थेऽपव्ययमानन्तु कारणेन विभावितम् । दापयेवनिकस्यार्थं दण्डलेशञ्च शक्तितः ॥ अर्थेऽपव्ययमानमपलपन्तं कारणेन प्रमाणेन । तथा,
यो यावन्निहूवीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेणाप्यधर्मज्ञौ दण्ड्यौ च द्विगुणं दमम् ॥ सर्वमिदमाशयापराधपरम् । अत एव तत्समं तद्दिगुणं दण्डलेशानामधमाशयदोषादत्कर्षापकर्षाभ्यां व्यवस्था रत्नाकरकृतोता। तदनवधारणे जात्यादिकमादाय व्यवस्था।
एवञ्च विस्मरणादौनामपहवानपहवपूर्वकसम्प्रतिपत्तौ च दण्डाभाव एव तत्र वादिनोऽनपराधत्वात् ।
कल्पतरौ तु आशयदोषव्यतिरेकेण विस्मरणादिनाऽपह्नवविषये शक्तितो दण्ड इत्युक्तम् ।
इहोत्तमर्णस्याप्रयुज्यप्रयुक्तत्वाद्यभिलापः प्रायेणाशयदोषप्रयुक्त एवेति तत्राविशेषेण द्विगुणो दण्डो ध्रुवः । तत्रापि शूद्रे विशेषमाह नारदः,मिथ्याभियोगिनो ये स्युईिजानां शूद्रयोनयः ।
तेषां जिह्वाः समुत्कृत्य राजा शूले निवेशयेत् ॥ अथ पुनायविषये याज्ञवल्क्यः,'दुईष्टांस्तु पुनदृष्ट्वा व्यवहारानृपेण तु।
सभ्याः सजयिनो दण्ड्या विवादादिगुणं दमम् ॥ १ क पुस्तकद्दथे पाठः मूले च-सम्यक् दृछा तु दुर्दशानिति पाठः ।
For Private And Personal Use Only