Book Title: Dandvivek
Author(s): Vardhaman, Kamal Krishna
Publisher: Oriental Institute

View full book text
Previous | Next

Page 381
________________ Shri Mahavir Jain Aradhana Kendra ३४६ www.kobatirth.org - दण्ड़विवेकः । Acharya Shri Kailassagarsuri Gyanmandir याज्ञवल्क्यः, यः साक्ष्ये श्रावितोऽन्येभ्यो निहुते तत्तमोदृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत् ॥ तमोवृतो रागाद्याक्रान्तचित्तो यथाज्ञातमर्थमन्येभ्यः' पूर्व्वं श्रावयित्वा निगदकाले यस्तं निह्नुतेऽपलपति सोऽष्टगुणं दण्डं दाप्यः । अष्टगुणता तु विवादविषयापेक्षया तस्यैवोपस्थितत्वात् अतएव रत्नाकरादौ व्याख्यातं आगमत्वादस्यार्थस्येति । मिताक्षरायान्तु, विवादपराजयनिमित्ताद्दण्डादष्टगुणमुक्तम् । व्यवहारतरङ्गे तु ग्रहेश्वर मिश्रा आहुः, - होने कर्म्मणि पश्चाशदित्यादिवचनबोधिताद्दण्डादष्टगुणत्वमेवेति । तन्मतेऽपि नियतसंख्यके ऋणादिविवादे तदपेक्षयैवाष्टगुणत्वं द्रष्टव्यं पृथक् पृथक् इत्यादिवाक्ये तेनैव तथा व्यवस्थाया दर्शितत्वात् ब्राह्मणस्य विवासनं देशनिष्काशनम् । मिताक्षराकारमते तु नग्नौकरणं गृहभङ्गो देशनिष्काशनमिति त्रिविधं तद्विषयानुसारेण व्यवस्थितम् । तथेतरेषां यथोक्तदण्डासम्भवे स्वजात्युक्तकर्म्मनिगडवन्ध- काराप्रवेशनादौनौति स एवाह | दण्डाधिक्यञ्चेदमपराधगौरवादिति दृष्टानुबोधितैव । अतएव निहुत इत्यच निहवो विशेषकौटिल्यमिति व्याख्यातम् । कृत्यसागरे आह च १ क अन्योऽन्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426