________________
Shri Mahavir Jain Aradhana Kendra
३४६
www.kobatirth.org
-
दण्ड़विवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यः,
यः साक्ष्ये श्रावितोऽन्येभ्यो निहुते तत्तमोदृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत् ॥ तमोवृतो रागाद्याक्रान्तचित्तो यथाज्ञातमर्थमन्येभ्यः' पूर्व्वं श्रावयित्वा निगदकाले यस्तं निह्नुतेऽपलपति सोऽष्टगुणं दण्डं दाप्यः ।
अष्टगुणता तु विवादविषयापेक्षया तस्यैवोपस्थितत्वात् अतएव रत्नाकरादौ व्याख्यातं आगमत्वादस्यार्थस्येति । मिताक्षरायान्तु,
विवादपराजयनिमित्ताद्दण्डादष्टगुणमुक्तम् । व्यवहारतरङ्गे तु ग्रहेश्वर मिश्रा आहुः, - होने कर्म्मणि पश्चाशदित्यादिवचनबोधिताद्दण्डादष्टगुणत्वमेवेति । तन्मतेऽपि नियतसंख्यके ऋणादिविवादे तदपेक्षयैवाष्टगुणत्वं द्रष्टव्यं पृथक् पृथक् इत्यादिवाक्ये तेनैव तथा व्यवस्थाया दर्शितत्वात् ब्राह्मणस्य विवासनं देशनिष्काशनम् ।
मिताक्षराकारमते तु नग्नौकरणं गृहभङ्गो देशनिष्काशनमिति त्रिविधं तद्विषयानुसारेण व्यवस्थितम् ।
तथेतरेषां यथोक्तदण्डासम्भवे स्वजात्युक्तकर्म्मनिगडवन्ध- काराप्रवेशनादौनौति स एवाह |
दण्डाधिक्यञ्चेदमपराधगौरवादिति दृष्टानुबोधितैव । अतएव निहुत इत्यच निहवो विशेषकौटिल्यमिति व्याख्यातम् । कृत्यसागरे आह च
१ क अन्योऽन्यम् ।
For Private And Personal Use Only