________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कूटसाक्षिदरहः।
३४५
गोविन्दराजस्तु,ब्राह्मणं पूर्वदण्डेन दण्डयित्वा नग्नं कुर्यादित्यर्थमाह । मेधातिथिस्तु,ब्राह्मणस्य विवासनं वासोऽपहरणं गृहभङ्गो वा इत्याह । अब मिताक्षराकारः,प्रवासयेत् मारयेत् प्रवासशब्दस्यार्थशास्त्रे मारणे प्रयोगात् । तत्रापि प्रवासनमोष्ठछेदनं जिह्वाभेदनं प्राणवियोजनच कौटसाक्ष्यविषयानुरोधेन द्रष्टव्यं अभ्यासविषयञ्चैतद्दचनमित्याह।
प्रवासयेदित्यस्य दण्डं विनैव स्वदेशान्निःसारेदित्यर्थ इति रत्नाकरः। मिताक्षरायान्तु,ब्राह्मणं दण्डयित्वा विवासयेत् स्वदेशान्निष्काशयेत् यहा वाससो विगतो विवासस्तं करोति इति णिचि णाविष्टवत् प्रातिपदिकस्येति टिलोपे विवासयेदितिरूपं तेन नग्नं कुर्यादित्यर्थः ।
अथवा वसन्त्यस्मिन्निति वासो गृहं तेन भग्नं गृहं कुर्यादित्यर्थ इत्यभिधाय ! एवञ्च ब्राह्मणस्यापि लोभादिकारणविशेषपरिक्षाने सहस्रादिरर्थदण्ड एव। अभ्यासे त्वर्थदण्डो विवासनञ्च ।
तत्रापि जाति द्रव्यानुवन्धाद्यपेक्षया नग्नौकरणं गृहभङ्गो देशनिष्काशनमिति पक्षभेदव्यवस्था ।
यद्दा,-अल्पविषये चतुर्णामर्थदण्ड एव, महाविषये तु निर्वासनमेवेति व्यवस्था दर्शिता ।
For Private And Personal Use Only