________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
तबाह याज्ञवल्क्यः,
पृथक् पृथक् दण्डनीयाः कूटकृत्-साक्षिणस्तथा। विवादादिगुणं दण्डं विवास्यो ब्राह्मणस्तथा ॥ विवादात् विवादविषयादित्यर्थः, विवादपराजयनिमित्तादण्डादिति मिताक्षराकारः। दण्डश्चायमणादि-विवादविषयः। तत्र संख्यानियमात्। अन्यत्र तु,हौने कर्मणि पञ्चाशन्मध्यमे तु शतावरः ।
गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः ॥ इति वचनोक्तो दण्ड इति कृत्यसागरः। विवास्यो ब्राह्मण इति ब्राह्मणस्य विवासनमात्रं न तु दण्डः। अन्येषान्तु समुच्चयः। अन्यथा न्यायागतो ब्राह्मणे दण्डायकर्षो न स्यात् ।
एतच्च पूर्वचापि द्रष्टव्यं तथाच लोभात् सहसमित्यादिकमभिधायमनुः,
कूटसाक्ष्यन्तु कुवाणांस्त्रीन् वान् धार्मिको नृपः। प्रवासयेद्दण्डयित्वा ब्राह्मणन्तु विवासयेत् ॥ लोभादित्यादि सकृत् कूटसाक्ष्यविषयमिदन्वभ्यासविषयम्। तत्र क्षत्रियादौन पूर्वोक्तदण्डेन दण्डयित्वा राजा निर्वासयेत् ब्राह्मणन्तु दण्डव्यतिरेकेणैवेति कुल्लूकभट्टः । एवमेव नारायणः।
-~-AR
AN
१ क्वचित् दण्ड्य इति पाठः ।
For Private And Personal Use Only