________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ कूटसाक्षिदण्डः। स च उत्कोचादिग्रहणनिमित्तः प्रकाशतस्करप्रकरणे प्रदर्शितः। लोभादिना कूटसाक्ष्ये दण्डमाह मनुःलोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्वन्तु साहसम्। भयाद्दौ मध्यमौ दण्डौ मैयात् पुर्वं चतुर्गुणम् ॥ कामाद्दशगुणं पूर्व क्रोधात्तु चिगुणं परम् ।
अज्ञानाद्दे शते पूर्णे वालिश्याच्छतमेव च ॥ लोभोऽर्थलिमा सहस्रं पणानामिति शेषः, मोहो विपरीतज्ञानमिति कुल्लकभट्टादयः। रत्नाकरेऽपि मिथ्याज्ञानमित्युक्तम्। वैचित्यमिति कल्पतरुः । पूर्व साहसं साईं पणशतइयम् । दौ मध्यमौ साहसावित्यन्वयः, तेन पणसहस्रमित्यर्थः।
चिगुणं परमिति पूर्वापेक्षया परं मध्यमं तस्मिंस्त्रिगुणे पञ्चदशशतानि सम्पद्यन्ते इति कल्पतरुः। एवमेव रत्नाकरः। ग्रहेश्वरमिश्रास्तु परं सहसमित्याहुः । नारायणसर्वज्ञोऽप्याह परमुत्तमसाहसमिति । अज्ञानं तात्कालिको विपर्यय इति कल्पतरुः । अस्फुरणमज्ञानमिति मिताक्षराकारः। अत एव वालिश्यं यौवनोन्मेषप्राप्तो मद इति रत्नाकरः। ज्ञानानुत्पादो वालिश्यमिति मिताक्षराकारः।
यत्र तु लोभादिकारणविशेषपरिच्छेदो नास्ति ।
For Private And Personal Use Only