________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
दण्डविवेकः।
रोगादावपि द्रष्टव्यं न्यायसाम्यात्। अन्यथा रात्रावस्यातिपौडाकरो ज्वरोऽभूदित्यभिधायैव वादी कृतकृत्यः स्यात् । तत्रापि शपथाद्यनुसारणेनानवस्था स्यात् । कात्यायनः,
उक्तऽर्थे साक्षिणो यस्तु दूषयेत् प्रागदूषितान् । न च तत्कारणं ब्रूयात् प्राप्नुयात् पूर्वसाहसम् ॥ पूर्वसाहसमुत्तमसाहसमिति रत्नाकरः ।
अथ कूटसानिनिर्देशदण्डः। तब कात्यायनः,
येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्य्यानिर्विषयन्ततः ॥ निर्विषयं विवादविषयशून्यमिति रत्नाकरः। एतच्चाभ्यासविषयं द्रष्टव्यम् । अनभ्यासे तु-कूटकृत् साक्षिणस्तथा विवादादिगुणं दण्डनीया इति याज्ञवल्क्यवचनमोवोपतिष्ठते । यः कूटान् साक्षिणः करोति स कूटदित्यर्थः ।
१ ख ७ निर्देशनदण्डः।
२ क पुस्तके इत्यर्थात् ।।
For Private And Personal Use Only