________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'अथादुष्टसाक्षिदूषणदण्डः। तत्र वृहस्पतिः,साक्षिणोऽर्थिसमुद्दिष्टान् सत्वदोषेषु दूषयेत् ।
अदुष्टान् दूषयन् वादी तत्समं दण्डमर्हति ॥ तत्सम विवादविषयसममिति रत्नाकरः। स्त्रीसंग्रहणादौ तु पराजयनिमित्तकदण्डसममिति प्रागुक्तमनुसन्धेयम्। अथ कात्यायन,नातथ्येन प्रमाणेन दोषेणैव तु दूषयेत् । मिथ्याभियोगे दण्ड्यः स्यात् साध्यार्थादापि हौयते ॥ दोषेण तथ्येनापि सिद्धेन नतु साध्येन । तथाहि वृहस्पति-कात्यायनौ,सभासदां प्रसिद्धं यत् लोकसिद्धमथापि वा।
साक्षिणां दूषणं ग्राह्यं न साध्यं दोषवर्जनात् ॥ प्रसिद्धमेव ग्राह्यं दोषवर्जनादित्यन्वयः, न तु साध्यं ग्राह्यं दोषसम्भवादिति भावः । तद्दोषमाहतुस्तावेव,
अन्यैस्तु साक्षिभिः साध्ये दूषणे पूर्वसाक्षिणाम् ।
अनवस्था भवेदोषस्तेषामप्यन्यसम्भवात् ॥ एवञ्च यवानवस्थादयो नापतन्ति तत्र साध्योऽपि दोषो ग्राह्य इत्येव गम्यते। एतच्च कृतशपथस्या शुचित्वलिङ्ग
१ क पुस्तके एष दण्डविधिः पतितः ।
For Private And Personal Use Only