________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४०
दाइविवेकः ।
तथा नारदःनियुक्तो वाऽनियुक्तो वा शास्त्रज्ञो वक्तुमर्हति ।
इति रत्नाकरः। इह केचित्,
अनिर्दिष्टाश्च ये कुर्युर्व्यवहारविनिर्णयम् ।
राजत्तिपत्तास्ते तेषां दण्डं प्रकल्पयेत् ॥ इति कात्यायनवचनमधार्मिकाशास्त्रज्ञविषयं येषां पुनरनियुक्तानामपि नाधर्मशङ्का राज्ञापि मत्कृत्यमेवैते कुर्वन्तौति सामान्यतो येऽनुमन्यन्तेऽनुकम्प्या एत इत्युपेक्ष्यन्ते वा। तैरनियुक्तरपि व्यवहारदर्शने प्रवर्तितव्यमेवेत्याहुः।
तत्र च नियुक्तो वेत्यादिवृहस्पति-नारदयोर्वचनं प्रमाणयन्ति स्म ।
For Private And Personal Use Only