________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कूटसाक्षिदण्डः।
३४७
नारदः
श्रावयित्वा तथाऽन्येभ्यः साक्षित्वं योऽतिनिहते । स विनयो भृशतरं कूटसाक्ष्यधिको हि सः॥ विष्णुः,
कूटसाक्षिणां सर्वस्वापहारः कार्यः । एतच्च वारंवारं कूटसाक्ष्य इति रत्नाकरः। एवञ्च याज्ञवल्क्योक्तदण्डोऽनभ्यासविषय इति गम्यते।
ग्रहेश्वरमिश्रास्तु अल्पधनस्य पूर्वसङ्ख्या दण्डाः, दण्डासम्पत्तौ सर्वस्वदण्ड इत्याहुः । अथ मनु-नारदौ,यस्य दृश्येत सप्ताहादुक्तसाक्ष्यस्य साक्षिणः ।
रोगोऽनि तिमरणमणं दाप्यो दमञ्च सः ॥ रोगादित्वमशुचित्वलिङ्गमाचपरं, दमस्तु पूर्वोक्तः सहस्रादिः। विवादपदहिगुणो वा पञ्चाशदादिर्वा ।
यत्र दृष्टात् प्रमादात् कूटत्वनिश्चयो नास्ति तचादृष्टादपि तन्निश्चये यथोक्तो दण्ड इति तात्पर्य्यम् ।
अत एव कालान्तरे साक्षित्वतत्वज्ञानाय मनुनारदयोरित्युपक्रम्य ग्रहेश्वरमिभैरवतारितम् ।
भवदेवोऽप्याह,
यदि कृतदिव्यस्य सप्ताहाभ्यन्तरे रोगादिकमुपलक्ष्यते तदासौ कूटसाक्षी ऋणं दाप्यो दण्ड्यश्चेति ।
१ क बवान्सरं।
For Private And Personal Use Only