________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
दण्डविवेकः ।
जीवन्तौनान्तु तासां ये तबरेयुः स्ववान्धवाः । तान् शिष्याचौरदण्डेन धार्मिकः पृथिवीपतिः ॥ वशा वन्ध्या। अपुवा नष्टपुत्रा। निष्कुला प्रनष्टमातापितृकुलेति। मृते भर्तरि अधिकार्य्यन्तराभावात्तत्सम्बन्धेन वा यत् संक्रान्तं यच्च तासां सौदायिक तदित्यर्थः। कात्यायनः,न भर्ता नैव च सुतो न पिता भ्रातरो न च । आदाने वा विसर्ग वा स्त्रीधने प्रभविष्णवः ॥ यदि त्वेकतरोऽमौषां स्त्रीधनं भक्षयेद्दलात् । स दृद्धिं प्रतिदाप्यः स्यादण्डञ्चैव समाप्नुयात् ॥ दण्डं गृहीततुल्यमन्यत्र तथादर्शनात् ।
For Private And Personal Use Only