Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ه م चतुर्थप्रपाठके द्वितीयखण्डः । ऋतु रग्निष्टोमादिभिरेवेष्टं भवति सर्वे क्रतवः कता भवन्तीत्यर्थः ॥ १ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षड्विशब्राह्मणास्य द्वितीयब्राह्मणे पञ्चमप्रपाठके प्रथम खण्ड: । er feataखण्ड: । I यदुक्त मग्निहोत्रमात्रेणैव सर्वक्रतुभिरिष्टम्भवति तदेतदाख्यायिकयोपादयति - प्रजापतिवी । यतः पुरा प्रजापतिः खलु एतत् प्रसिद्ध सहस्रसंवत्सरः वत्सरशब्दो दिनपरः शतायुः पुरुष इति श्रुतेः । सहस्रसंवत्सरञ्जीवितुं मनुष्यस्य कस्याप्यभावात् । गन्धर्वादोनां सहस्रसंवत्सरजीवनेऽपि तेषामत्युपसंहारायासामर्थ्यानाधिकारः । न च यो मासः स संवत्सर इति दर्शनात् संवत्सरशब्दो मासपर इति शङ्कनीयं तत्राप्याधानादूई सहमाजीवना सम्भवात् । नापि संवत्सरप्रतिमा वै द्वादश रात्रय इति प्रयोगादु दादशरात्रपरता संवत्सरशब्दस्येति शङ्कनीययम् । प्रतिमा विशेषणत्व नैवात्र संवत्सरशब्दस्य प्रयोगाचतुर्द्वादशरात्रिषु प्रयोगादिति । अतः सहस्रदिवससाध्य सत्र मसृजतेत्यर्थः । सृष्ट्वा च प्रजापतिः तेषामुपसन्नानां देवाना मधे सहस्रसंवत्सरसाध्ये सत्चे गवामयन मवा रुन्धत् न्यरौत्सीत् तच्च गवामयनं दादशाहे बादशाह - साध्ये ऽवारुन्धदित्यनुषङ्गः । एवमन्यदपि व्याख्येयम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178