Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
षड्विंश ब्राह्मणभाष्यम् ।
१०६
अथ सप्तमखगड: ।
अथाग्निदेवताकनिमित्तविशेषे होमविशे षं दर्शयितुं तदङ्गत्वेनादौ पृथिवीनिरीक्षण पूकमावर्तनं दर्शयतिसा पृथिवी । होमार्थं वक्षामाणनिमित्तानां पृथिव्याश्चान यत्वाविशेषादिदानीं निमित्तविशेषान् दर्शयति - अथ यदास्य नैवम् । रुदति रोदति । धूमायति श्रग्निं विनैव धूमः प्रचुरो भवति । अकस्मात् दृष्टिं विनैव सलिलमुद्रिरति तथा सलिले प्रक्षिप्त: पाषाणः प्लवत् लवमान एव तिष्ठति न तु मज्जति निमग्न मृतशरीरमुदके प्रक्षिप्त नो प्लवति किन्तु निमज्जति किञ्चाकाले पुष्पञ्च फलञ्च फलपुष्पमभिनिवर्ततीति वृक्षमभितो जायते । तथा सति अश्वतर्या गर्भो जायते । श्रखतर्याः प्रजापतिमा अरेत स्कत्वात् गर्भाभाव: 'तस्मादखतरो न जायते अरेता हि' इति तिप्रसिद्धिस्तथा यदा यस्मिन् देशे हस्तिनी करिणी मज्जति निर्निमित्तं उदके निमज्जति तथा यत्र यस्मिन् देश भूकम्पो जायते तत्र तदा तद्देशाधिपती राजा विनश्यति किञ्च यदा गोट हमारोहेद ग्रामं महिषो आरोहदिव्यनुषङ्गः आरण्यक मनुष्यग्ट हा रोहणीयासम्भवाद ग्राममहिषीति विशेषणमित्येवमादीनि ग्रामस्करगृहारोहयादोनि तान्येतानि सर्वाण्य तानि अग्निदेवत्यानि प्रा. यश्चित्तानि भवन्ति स तुदुरितापूर्वनिबर्हण साधनं होम सेतिकर्तव्यताकं दर्शयति - श्रग्मिन्दूतमिति । अग्निदूत वृणोमह इत्यनया ऋचा स्थालीपाक विधानेन चरु श्रपयित्वा तं हत्वा पुनरम्नये स्वाहेत्यादिभिः पञ्चभिर्मन्त्रः
१०
For Private and Personal Use Only
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178