Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमप्रपाठके सप्तमखण्ड ।
सम्पूर्णों दृश्यते सा पौर्णमासौ राका। यत्र तु चन्द्रो न दृश्यत सामावास्या कुहरिति जेया॥ ६ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाश षड्विंशब्राह्मणाख्ये हितोयबाधाये
• पञ्चमप्रपाठके षष्ठखण्डः ।
-
-
अथ सप्तमखण्डः । - अथ स्वाहाकाराख्यां देवतां प्रश्रपूर्वकं निरूपयितु प्रजापतिं प्रति ब्रह्मवादिनां प्रश्नं तावदुपस्थापयति-स्वाहा वै निगदसिद्धमेतत् । उत्तरमाह-स्वाहा वै सत्यसम्भूता। स्वाहा सत्य नैव सम्भता नान्ये न। ब्रह्मण एव दुहिता ब्रह्मणा प्रकर्षेण कता। लातव्येन ऋषिणा समानगोला । तस्या मक्षराणि सकार-वकार-हकारात्मकानि त्रीणि पदमेकं एतावन्त्येवेति मन्तव्यम् अस्यै अस्या वर्णरूपाणि शकः पद्मः पद्मशब्देन पद्मवर्ण उपलक्ष्यते सुवर्णवर्णश्चेति त्रयः। अस्याञ्चबार ऋगादयो वेदा उच्छासाः स एव तस्याः शरीरं यानि निरुतादीनि षड्वेदाङ्गानि तान्ये व तस्या अङ्गानि ओषधिवनस्पतय एवास्या लोमानि। तथा हे शिरसी तयोरेव प्रदर्शन ममावास्यैकं शिरः पौर्णमासी द्वितीयं शिरः तत्रैव च यागकरणाचन्द्रादित्यो चन्द्रादित्यावेवास्याश्चक्षुषी इत्यर्थः । आज्यभागाख्ये कम्मणी एवास्याः हुतं हवनस्थानं मुख. मित्यर्थः । यागे या दक्षिणा सैव प्रावृता वरणं तस्याः हह. द्रथन्तरे एवं सामनी एव बाहू इति शेषः । ऋग्यजुः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178