Book Title: Daivat Bramhanam tatha Shadvinshat Bramhanam
Author(s): Samveda, Sayanacharya, Jivanand Vidyasagar
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 167
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठप्रपाठके चतुर्थ खण्डः । अथ चतुर्थखण्डः । - याम्य नमित्तहोमविशेष दर्शयितुं तदर्थमपि किञ्चिनियमं दर्शयति-सदक्षिणां दिश। स वक्ष्यमाणादभुतवि. शेषनिमित्तवान् होमाधिकारी दक्षिणान्दिशमन्वौक्ष्य वर्तते होमार्थ निमित्त विशेषाणां दक्षिणा दिशोऽपि याम्यत्वाविशेषात् । इदानों निमित्तविशेषान् दर्शयति-अथ य. दास्य। अथ पुनयंदा अस्य पुरुषस्य सम्बन्धिष प्रजया पुत्रादिकया सहितेषु पशुष गवादिषु स्वशरीरे वा अरिष्टानि प्रादुर्भवन्ति । अथवा अनेकविधा ज्वरादयो व्याधयः प्रादुर्भवन्ति । तथातिवप्रदर्शनम् । अवप्न मनिद्रा। अतिभोजनं भस्मकरोगवशेन बहुतराव्यभहारः। अभोजन मरुत्यादिना। आलस्य भ्रवालसनावणम्। अजीर्ण क्षुदभावेन भुक्तस्यानरस्यापचनम्। अतिनिद्रा एवमादौनि नेत्रादिदोषः । तान्ये तानि सर्वाणि यमदेवत्यानि अद्भ. तानि प्रायश्चित्तनिमित्तानि भवन्ति । एवं निमित्तविशे. पान् दर्शयित्वा इदानीं तहे तुदोषनिव्र णसाधनं होम सेतिकर्तव्यताकं दर्शयति-नाके सुपर्णमिति स्थालीपाक हुत्वा पञ्चभि राज्याहुतिभि रभिजुहोति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्ड पाणये स्वाहेश्वराय स्वाहा सर्व पापशमनाय स्वाहा इति जहुयात् । तत: तत्र न्य नाति रेकप्रायश्चित्तार्थ व्याहृतिभिर्हत्वा अथ पश्चान्नाके सुपर्णमि त्यस्या मृचि साम गायेत् पूर्ववत् स्वस्तिवाचनं कुर्यादिति॥४॥ इति श्रीसायणाचार्यविरचित माधवौये वेदार्थ प्रकाशे षड्विथ ब्राह्मणा हितीय ब्राह्मणषष्ठ प्रपाठके चतुर्थखण्डः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178