Book Title: Chikitsa Kalika
Author(s): Narendranath Mtra
Publisher: Mitra Ayurvedic Pharmacy
View full book text
________________
२०८
चिकित्साकलिका। तस्य मूत्रेण पिष्टा वर्तिः कृता नक्तान्ध्यं राज्यन्धत्वं तस्य विध्वंसकरी नराणां प्राणिनामिति ॥ ३११ ॥
रेणुका, सैन्धानमक, स्रोतोज (काला सुरमा ), पिप्पली, इन्हें एकत्र मिश्रित कर बकरी के मूत्र से पीस कर वर्ति बनावें । यह वर्ति नक्तान्ध्य (रात्र्यान्ध्य, रतौंधा) को नष्ट करती है ॥ ३११॥
इदानी पिलशुक्रयोरञ्जनमुवाचसताक्ष्यशैलं त्रिकटु प्रदिष्टं पिल्लापहं पिल्लगदातुराणाम् । समाक्षिकं चापि विभीतकस्य बीजं जयेच्छुक्रमथापि ताप्यम् ॥३१२॥
पिल्लगदः पिञ्चटस्तेन आतुरास्तेषां त्रिकटु सतायशैलं सरसाञ्जनं मधुयुतमञ्जनं पिल्लापहं प्रदिष्टं कथितमिति । विभीतकस्य अक्षस्य बीजं मजा समाक्षिकमञ्जनं शुक्रं जयेत् । अथवा ताप्यमपि धातुमाक्षिकं समाक्षिकं शुक्रं जयेदिति ॥ ३१२ ॥
रसौंत तथा विकटु, इन्हें एकत्र मिश्रित कर मधु के साथ आंजने से पिल्लरोग नष्ट होता है । बहेड़े के बीज की मींगी के चूर्ण को मधु के साथ अथवा केवल गन्धक योग से भस्म की हुई स्वर्णमाक्षिक को मधु के साथ आंजने से शुक्र (फूला) नष्ट होता है ॥ ३१२ ॥
____ अधुना शुक्रादीनां लेख्याञ्जनमाह- . चन्दनसिन्धुसमुद्भवपथ्याकिंशुकरक्तमिति क्रमवृद्धम् । क्षौद्रसमन्वितमञ्जनमक्ष्णोः शुक्ररुगर्मगदादि विलेखि ॥ ३१३ ॥
चन्दनादिचतुष्टयं क्रमवृद्धं (चूर्ण कृत्वा) क्षौद्रसमन्वितमक्ष्णोरञ्जनं शुक्रादिविलेखि । क्रमवृद्धिरत्र च रक्तचन्दनस्यैकोभागः । सिन्धुसमुद्भवं सैन्धवं तस्य द्वौ भागौ। पथ्या हरीतकी तस्यास्त्रयो भागाः । किंशुकः पलाशस्तस्य रक्त निर्यासस्तस्य चत्वारो भागाः । अञ्जनञ्च त्रिविधं गुटिकारसचूर्णभेदेन । तत्र बलवतां रोगाणां पिष्टं यत् क्रियते पिण्डवर्तिगुटिकाभेदेन तद्गुटिकाञ्जनम् । मध्यबलानां रोगाणां घनो रसो रसक्रियाञ्जनम् । हीनबलानां रोगाणां शुष्कचूर्ण चूर्णाञ्जनम् । पुनश्च त्रिविधं लेखनरोपणप्रसादनभेदेन । तत्र लेखनमम्ललवणकटुतिक्तकषायभेदभिन्नं पञ्चविधं पूर्वाह्ने प्रयोक्तव्यं दृष्टिगतरोगनिवृत्त्यर्थम् । रोपणं कषायातक्तं स्नेहनयुक्तमपराह्न प्रयोक्तव्यं वातजरोगावजयार्थम् । प्रसादनं मधुरं स्नेहसंयुक्तं रात्रौ प्रयोक्तव्यं पित्तरोगशान्त्यर्थमिति ।
Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274