Book Title: Chikitsa Kalika
Author(s): Narendranath Mtra
Publisher: Mitra Ayurvedic Pharmacy

View full book text
Previous | Next

Page 241
________________ २२८ चिकित्साकलिका। रास्त्रावरीसरलसैन्धवसारिवाभिः युपणिनीमधुरभेषजसंयुताभिः ॥ ३४३ ॥ एताभिरर्धपलभागविभाजिताभिस्तैलाढकं सयवकोलकुलत्थतोयम् । पक्कं पृथक् सदशमूलजलं जनानामेतद्भिषभिरुदितं पवनामयनम् ॥ ३४४ ।। यान्यत्र पश्च कथितानि मया मृदूनि तैलान्यमूनि पवनामयनाशनानि । सेव्यानि दुर्बलवपुर्वलवर्द्धनानि योषिद्गमाय भुवि भूमिभुजां भवन्ति ॥ ३४५ ॥ स्त्रीणां सुखप्रसवनाय च गर्भिणीनामुद्गाढगात्रगुरुगर्भभरालसानाम् । त्वङ्माईवाय वपुषि प्रमदाजनानां दन्तोद्गमेषु च शिशोर्दशनोद्गमाय ॥ ३४६ ॥ छिन्नोद्भवा गुडूची तस्याः पलशतम् । सरणी प्रसारणी तस्याश्च शतं पलशतम् । रास्नाशतं राना रसना तस्याः शतम् पलशतम् । सहाचरादथवा बलायाः शतं पलशतमिति सम्बन्धः । अम्भसः सलिलस्य द्रोणे शृतं क्वथितम् । अतोऽस्मात् गुडूच्यादीनामन्यतमे कषाये पादस्थिते चतुर्भागावशेषे पयसि च दुग्धे चतुर्गुणे तैलादस्मिन् लामजकादिभिरर्द्धपालिकैः कल्कैः तैलाढकं पक्कं सयवकोलकुलत्थतोयमिति तैलाढकविशेषणम् । कोलानि बदराणि । यवकोलकुलत्थानां त्रयाणां पलशतं सलिलद्रोणे प्रक्वाथ्य चतुर्भागावशेषं तोयं ग्राह्यम् । सदशमूलजलमिति । एतदपि तैलाढकविशेषणम् । तेन दशमूलस्य पलशतमुदकद्रोणे क्वथितं चतुर्भागावशेष दशमूलजलं क्वाथं पृथग्गुडूच्यादिभिः पक्कं जनानां प्राणिनामेतत् पवनामयनं वातविकारघ्नं भिषभिरुदितं कथितम् । इत्याभिरर्द्धपलभागविभाजिताभिर्लामजादिभिः

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274