Book Title: Chikitsa Kalika
Author(s): Narendranath Mtra
Publisher: Mitra Ayurvedic Pharmacy

View full book text
Previous | Next

Page 268
________________ वाजीकरणतन्त्रम्। २५५ अतिबलामथ नागवलां बलामिह हि नागबलः स पुमान् भवेत् ॥ ३९९ ॥ एषा चिकित्साकलिका सदर्थगन्धा भिषक्षट्पदवृन्दसेव्या । निरूपिता वृत्तशतैश्चतुर्भि- . योगैः स्ग जैरिव तीसटेन ॥ ४०० ॥ जातैर्विशाला बहुसुश्रुतादिशास्त्रोदधौ योगविशेषरत्नैः । आस्तां चिरं सद्गुणकण्ठिकेव कण्ठस्थिता वैद्यमहीपतीनाम् ॥ ४०१ ।। इति तीसट विरचिता चिकित्साकलिका समाप्ता । यः पुमान् कृतसंशोधनः कृतशरीरशुद्धिर्वमनविरेकादिभिः । त्रिकण्टकं गोक्षुरकम् । मधुकं यष्टीमधु । बहुपुत्रिका शतावरी । अतिबलां अथ नागबलां बलां च पयसा क्षीरेण पिबति यः स नागबलः कुञ्जरबलो बाह्येन शरीरोपचयादिना आभ्यन्तरेण प्राणोदितवलेन द्विविधेनापि संयुतो भवेदिह लोके ॥ ३९९-४०१॥ चिकित्साकलिकाटीका योगरत्नसमुच्चयम् । सुश्रुते पाठशुद्धिश्च तृतीयां चन्द्रटो व्यधात् ॥ १॥ पुण्यं यदाप्तवान् लोके चन्द्रटो भिषजां मतः । आरोग्यं तेन गच्छन्तु सन्तः सन्मार्गिगामिनः ॥२॥ इति तीसटसुतचन्द्रटविरचितायां चिकित्साकलिकाटीकायां वाजीकरणतन्त्रं समाप्तम् ॥ जो मनुष्य वमन आदि द्वारा शरीर की शुद्धि करके गोखरू, मुलहठी, शतावर, अतिबला, नागबला, बला; इनके चूर्ण को आधा तोला परिमाण में दूध के साथ पीता है वह निश्चय से हाथी के समान बलयुक्त होता है ॥ ३९९ ॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274