Book Title: Chikitsa Kalika
Author(s): Narendranath Mtra
Publisher: Mitra Ayurvedic Pharmacy

View full book text
Previous | Next

Page 246
________________ वातरोगचिकित्सा। २३३ कृश एवं वात के कारण संकुचित अंगों वाले रोगियों को इस तेल का प्रतिदिन उपयोग करना चाहिये । यह तैल यतः प्राणी के वात के कारण संकुचित होते हुए एवं अत्यन्त कृश अंग को भी प्रसृत करता है अतएव चरक, पराशर आदि मुनियों ने इसे श्रेष्ठ कहा है ॥ ३५०–३५४ ॥ इदानीं महत्प्रसारिणीतैलमाहसान्द्रोणद्वितयैवलासहचरच्छिन्नाश्वगन्धावरीगन्धर्वैः कपिकच्छवारणकणायुपञ्चमूलायुतैः । इत्येभिः सरणीशतेन सहितैः छागार्धमांसेन तुक्वाथेस्मिन् दधिमस्तुकाञ्जिकयुतैस्तैलं सशुक्तं शृतम्॥३५५॥ मञ्जिष्ठाष्टकवर्गचन्दनवचामुस्ताशताबाकणाशुण्ठीसैन्धवपद्मकामयशटीलामजकेन्द्रद्रमैः । रास्नाव्याघ्रनखानलैः समधुकैः कल्कैस्त्रिकर्षान्वितैरेतत् सर्वमरुद्विकारशमनं प्रोक्तं विदेहादिभिः ॥ ३५६ ॥ इत्येभिर्बलादिभिः प्रत्येकं द्विपलिकैः सरणी प्रसारणी तस्याः शतेन छागार्द्धमांसेन च पश्चाशत्प्रमाणेन सहितैः सान्द्रोणद्वितयैरित्युदकद्रोणद्वितयेन कथितैः । पादावशेषे तस्मिन्क्वाथे तैलाढकं दधिमस्तुकाञ्जिकचुक्राणां प्रत्येकस्याढकन युतम् । मञ्जिष्ठादिभिः कल्कैःत्रिकर्षान्मितः शृतमेतत्तैलं सर्वमरुद्विकारशमनाय अशीतिवातविकारशमनार्थमुक्तम् । विदेहादिभिर्विदेहचक्षुष्येणादिभिर्मुनिभिरिति । बला वाट्यालकम् । सहचरं कुरण्टकः । छिन्ना गुडूची । अश्वगन्धा बल्या । वरी शतावरी। गन्धर्व एरण्डः। कपिकच्छुः आत्मगुप्ता। वारणकणा हस्तिपिप्पली। युक्पञ्चमूली दशमूली। सरणी प्रसारणी । मञ्जिष्ठा योजनवल्ली । अष्टकवर्गः पूर्वोक्तः । चन्दनं रक्तचन्दनम् । वचा लोमशा । मुस्ता गांगेयी। शताह्वा शतपुष्पा । कणा मगधा । शुण्ठी विश्वम् । सैन्धवं लवणोत्तमम्। पद्मकं शीतवीर्यम् । आमयः कुष्ठम् । शटी पलाशा । लामजकं उशीरभेदः । इन्द्रद्रमैः कुटजैः । रास्ना सुरभी। व्याघ्रनखं व्याघ्रायुधम् । अनलं चित्रकम् । मधुकं यष्टीमधुकमिति ॥ ३५५-३५६ ॥ महाप्रसारणीतैल-तिलतैल २ आढक । काथार्थ-बलामूल, सहचर, गिलोय, असगन्ध, शतावर, एरण्डमूल, कौछ की जड़, गजपिप्पली, दशमूल; प्रत्येक २ पल


Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274