________________
वातरोगचिकित्सा।
२३३ कृश एवं वात के कारण संकुचित अंगों वाले रोगियों को इस तेल का प्रतिदिन उपयोग करना चाहिये । यह तैल यतः प्राणी के वात के कारण संकुचित होते हुए एवं अत्यन्त कृश अंग को भी प्रसृत करता है अतएव चरक, पराशर आदि मुनियों ने इसे श्रेष्ठ कहा है ॥ ३५०–३५४ ॥
इदानीं महत्प्रसारिणीतैलमाहसान्द्रोणद्वितयैवलासहचरच्छिन्नाश्वगन्धावरीगन्धर्वैः कपिकच्छवारणकणायुपञ्चमूलायुतैः । इत्येभिः सरणीशतेन सहितैः छागार्धमांसेन तुक्वाथेस्मिन् दधिमस्तुकाञ्जिकयुतैस्तैलं सशुक्तं शृतम्॥३५५॥ मञ्जिष्ठाष्टकवर्गचन्दनवचामुस्ताशताबाकणाशुण्ठीसैन्धवपद्मकामयशटीलामजकेन्द्रद्रमैः । रास्नाव्याघ्रनखानलैः समधुकैः कल्कैस्त्रिकर्षान्वितैरेतत् सर्वमरुद्विकारशमनं प्रोक्तं विदेहादिभिः ॥ ३५६ ॥
इत्येभिर्बलादिभिः प्रत्येकं द्विपलिकैः सरणी प्रसारणी तस्याः शतेन छागार्द्धमांसेन च पश्चाशत्प्रमाणेन सहितैः सान्द्रोणद्वितयैरित्युदकद्रोणद्वितयेन कथितैः । पादावशेषे तस्मिन्क्वाथे तैलाढकं दधिमस्तुकाञ्जिकचुक्राणां प्रत्येकस्याढकन युतम् । मञ्जिष्ठादिभिः कल्कैःत्रिकर्षान्मितः शृतमेतत्तैलं सर्वमरुद्विकारशमनाय अशीतिवातविकारशमनार्थमुक्तम् । विदेहादिभिर्विदेहचक्षुष्येणादिभिर्मुनिभिरिति । बला वाट्यालकम् । सहचरं कुरण्टकः । छिन्ना गुडूची । अश्वगन्धा बल्या । वरी शतावरी। गन्धर्व एरण्डः। कपिकच्छुः आत्मगुप्ता। वारणकणा हस्तिपिप्पली। युक्पञ्चमूली दशमूली। सरणी प्रसारणी । मञ्जिष्ठा योजनवल्ली । अष्टकवर्गः पूर्वोक्तः । चन्दनं रक्तचन्दनम् । वचा लोमशा । मुस्ता गांगेयी। शताह्वा शतपुष्पा । कणा मगधा । शुण्ठी विश्वम् । सैन्धवं लवणोत्तमम्। पद्मकं शीतवीर्यम् । आमयः कुष्ठम् । शटी पलाशा । लामजकं उशीरभेदः । इन्द्रद्रमैः कुटजैः । रास्ना सुरभी। व्याघ्रनखं व्याघ्रायुधम् । अनलं चित्रकम् । मधुकं यष्टीमधुकमिति ॥ ३५५-३५६ ॥
महाप्रसारणीतैल-तिलतैल २ आढक । काथार्थ-बलामूल, सहचर, गिलोय, असगन्ध, शतावर, एरण्डमूल, कौछ की जड़, गजपिप्पली, दशमूल; प्रत्येक २ पल