Book Title: Chikitsa Kalika
Author(s): Narendranath Mtra
Publisher: Mitra Ayurvedic Pharmacy
View full book text
________________
पाट्य
२४२
चिकित्साकलिका। हल्दी, हारहल्दी, विदारीकन्द, शतावर, मञ्जिष्ठा, मोथा, पद्माख, मुलहठी, किशमिश; प्रत्येक १ कर्ष । वीर्याधानार्थ जल ८ प्रस्थ । यथाविधि पाक करें। यह घृत ग्रहपीडित बालकों, क्षीणवीर्य पुरुषों तथा वातरोगियों के लिये अत्यन्त हितकर है । वमन एवं विरेचन आदि द्वारा कायशुद्धि करने के पश्चात् पुत्रार्थिनी स्त्रियों को सदा सेवन करना चाहिये ॥ ३६९-३७० ॥
अधुना महत्पञ्चगव्यमाहभार्गीफल्गुफलत्रिकद्विपकणाशम्याकशकद्रमत्वङ्मृर्वादशमूलमोरटजटा सप्तच्छदत्वक्तुला। निःक्काथ्या सलिलामणेन शुचिना क्वाथे च पादस्थिते गोमूत्रेण सगोशकूद्रसदधिःक्षीरेण सर्पिः पचेत् ॥ ३७१॥ सव्योषः सवचाविडङ्गहुतभुक्झनिम्बतिक्तानिवृत् पाठापुष्करसारिवाद्वयनिशायुग्यष्टिकायासकैः । . पूतीकच्छदनीलिनीफलयुतैः स्यात्पश्चगव्यं पृथु श्वासापस्मृतिरुक्प्रमेहपिटकाजीर्णज्वरोन्मादनुत् ॥ ३७२ ॥
भार्यादीनां तुलां निःक्वाथ्य सलिलामणेनोदकद्रोणेन । भार्गी ब्राह्मणयष्टिका । फल्गुः गोष्ठोदुम्बरिका । फलत्रिकं त्रिफला । द्विपकणा हस्तिपिप्पली । शम्याकः किरिमालकः । शक्रमः कुटजद्रुमस्तस्य त्वक् । मूर्वा चौरस्नायुः। दशमूलं पूर्वोक्तम् । मोरटजटा अपामार्गमूलम्। सप्तच्छदः सप्तपर्णः तस्य त्वक् । एषां तुला क्वाथ्या । अथानन्तरं क्वाथे पादस्थिते चतुर्थाशे सर्पिःप्रस्थं गोमयरसदधिक्षीरेण च प्रस्थं युतं । व्योषादिभिः कार्षिकैः कल्कैः पचेत् । व्योषं त्रिकटुकम् । वचा उग्रा। विडङ्गं कृमिजित् । हुतभुक् चित्रकम् । भूनिम्बः किराततिक्तम् । तिक्ता कटुका । त्रिवृत् त्रिवृता । पाठा वृकी । पुष्करं पुष्करमूलम् । सारिवाद्वयं सारिवोत्पलसारिवे । निशायुग्मं हरिद्राद्वयम् । यष्टिका यष्टीमधु । यासको दुरालभा । पूतीकश्चिरबिल्वस्तस्यच्छदाः पत्राणि । नीलिनी नीलाअनिका शारदा फलम् । पृथु पञ्चगव्यं स्यात् भवत् । श्वासादींश्च नुदति ॥ ३७१–३७२॥
महत्पञ्चगव्यघृत-गव्यघृत २ प्रस्थ । क्वाथार्थ-भारंगी, कठूमरफल, त्रिफला, गजपिप्पली, अमलतास, कुटजत्वक् ( कुड़े की छाल), मिलित १ तुला
Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274