Book Title: Chikitsa Kalika
Author(s): Narendranath Mtra
Publisher: Mitra Ayurvedic Pharmacy

View full book text
Previous | Next

Page 236
________________ वातरोगचिकित्सा | पूर्व बलातैलेनान्वासनमुकं ततस्तद्बलातैलमाहतैलं वातहरं बलाजलपयः पक्कं वरीकुण्डलीरास्नानागबलाबलामिशिपृथक्पर्णीस्थिरा रेणुभिः । मञ्जिष्ठाष्टकवर्गचन्दननतैरेलाश्वगन्धागुरु त्वग्यष्टीमधुपत्रकैः सनलदैः शैलेयरुग्दारुभिः || ३३५ ।। वरीकुण्डल्यादिकल्केन बलाजलपयोभ्यां पक्कं तैलं वातहरं भवति । वरी शतावरी । कुण्डली गुडूची । मिशि: शतपुष्पा । पृथक् पर्णी पृश्निपर्णी । स्थिरा शालिपर्णी । मञ्जिष्ठा योजनवल्ली । अष्टकवर्गः काकोल्यादिः पूर्वोक्तः । चन्दनं रक्तचन्दनम् । नतं तगरम् । नलदं मांसी । रुक् कुष्ठम् | दारु देवदारु । शेषाणि प्रसिद्धानि । अत्र प्रमाणानिर्देशान्महासन्देहः – बलायाः जलं क्वाथः क्रियते । कियत्प्रमाणा बला कियत्प्रमाणे जले ? कियत्प्रमाणः क्वाथः शेषो गृह्यते ? पयः क्षीरं च कियत्प्रमाणम् ? कियत्प्रमाणं तैलस्य ? कियत्प्रमाणेन कल्केन तैलं साध्यते ? इति सन्देहः । अत्रोच्यते बलापलशतं चतुर्गुणे जलद्रोणे प्रक्वाथ्य चतुर्भागावशेषः क्वाथो गृह्यते । तस्मिन् तैलप्रस्थं क्षीरचतुगुणं कल्कपादं विपचेदित्येष कर्ममार्गः पारम्पर्यागतः । तथा च चक्षुष्येणः - "चतुर्गुणास्वप्सु पचेत्कषायं पादावशेषं कथितं तु वैद्यः । स्नेहाद्भवेत्पादसमं तु कल्कं स्नेहात्कषायोऽपि चतुर्गुणः स्यात् । यत्र प्रमाणं तु न कीर्त्तितं स्यात्तत्र प्रमाणस्य विधानमेतत् । खरनादेनाप्युक्तम्-'चतुर्गुणं जलं द्रव्यैः पक्त्वा पादावशेषिते । क्वाथपादसमं स्नेहं कल्कपादं विपाचयेत् । अनिर्दिष्टप्रमाणानां प्रमाणमिदमीरितम् । येषां निर्दिष्टमिष्टं तु द्रवेऽनुके जलं मतम् ।” कपिलबलेनाप्युक्तम् - "पादौषधं जलं क्वाथ्यं ग्राहयेत्पादशेषितम् । चतुर्गुणेन तेनापि पादकल्कं घृतं पचेत् ।” सुश्रुतेनाप्युक्तम्- "अत्रोदकद्रोणे त्वक्पत्र मूलादीनां तुलामावाप्य चतुर्भागावशेषं निः काथ्यापहरेदित्येष कषायपाककल्पः । स्नेहकुडवे भेषजपलं कल्कमिष्टम् । चतुर्गुणं द्रवमावाप्य विपचेदित्येषकषायपाककल्पः । स्नेहकुडवं चतुः पलं ग्राह्यमष्टपलं द्विगुणपरिभाषया । कुडवादूर्ध्वमप्यावाप्यते । तथा च तन्त्रान्तरे - " रक्तिकादिषु मानेषु यावन्न कुडवो भवेत् । तुल्यमेव २२३

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274