________________
वातरोगचिकित्सा |
पूर्व बलातैलेनान्वासनमुकं ततस्तद्बलातैलमाहतैलं वातहरं बलाजलपयः पक्कं वरीकुण्डलीरास्नानागबलाबलामिशिपृथक्पर्णीस्थिरा रेणुभिः । मञ्जिष्ठाष्टकवर्गचन्दननतैरेलाश्वगन्धागुरु
त्वग्यष्टीमधुपत्रकैः सनलदैः शैलेयरुग्दारुभिः || ३३५ ।।
वरीकुण्डल्यादिकल्केन बलाजलपयोभ्यां पक्कं तैलं वातहरं भवति । वरी शतावरी । कुण्डली गुडूची । मिशि: शतपुष्पा । पृथक् पर्णी पृश्निपर्णी । स्थिरा शालिपर्णी । मञ्जिष्ठा योजनवल्ली । अष्टकवर्गः काकोल्यादिः पूर्वोक्तः । चन्दनं रक्तचन्दनम् । नतं तगरम् । नलदं मांसी । रुक् कुष्ठम् | दारु देवदारु । शेषाणि प्रसिद्धानि । अत्र प्रमाणानिर्देशान्महासन्देहः – बलायाः जलं क्वाथः क्रियते । कियत्प्रमाणा बला कियत्प्रमाणे जले ? कियत्प्रमाणः क्वाथः शेषो गृह्यते ? पयः क्षीरं च कियत्प्रमाणम् ? कियत्प्रमाणं तैलस्य ? कियत्प्रमाणेन कल्केन तैलं साध्यते ? इति सन्देहः । अत्रोच्यते बलापलशतं चतुर्गुणे जलद्रोणे प्रक्वाथ्य चतुर्भागावशेषः क्वाथो गृह्यते । तस्मिन् तैलप्रस्थं क्षीरचतुगुणं कल्कपादं विपचेदित्येष कर्ममार्गः पारम्पर्यागतः । तथा च चक्षुष्येणः - "चतुर्गुणास्वप्सु पचेत्कषायं पादावशेषं कथितं तु वैद्यः । स्नेहाद्भवेत्पादसमं तु कल्कं स्नेहात्कषायोऽपि चतुर्गुणः स्यात् । यत्र प्रमाणं तु न कीर्त्तितं स्यात्तत्र प्रमाणस्य विधानमेतत् । खरनादेनाप्युक्तम्-'चतुर्गुणं जलं द्रव्यैः पक्त्वा पादावशेषिते । क्वाथपादसमं स्नेहं कल्कपादं विपाचयेत् । अनिर्दिष्टप्रमाणानां प्रमाणमिदमीरितम् । येषां निर्दिष्टमिष्टं तु द्रवेऽनुके जलं मतम् ।” कपिलबलेनाप्युक्तम् - "पादौषधं जलं क्वाथ्यं ग्राहयेत्पादशेषितम् । चतुर्गुणेन तेनापि पादकल्कं घृतं पचेत् ।” सुश्रुतेनाप्युक्तम्- "अत्रोदकद्रोणे त्वक्पत्र मूलादीनां तुलामावाप्य चतुर्भागावशेषं निः काथ्यापहरेदित्येष कषायपाककल्पः । स्नेहकुडवे भेषजपलं कल्कमिष्टम् । चतुर्गुणं द्रवमावाप्य विपचेदित्येषकषायपाककल्पः । स्नेहकुडवं चतुः पलं ग्राह्यमष्टपलं द्विगुणपरिभाषया । कुडवादूर्ध्वमप्यावाप्यते । तथा च तन्त्रान्तरे - " रक्तिकादिषु मानेषु यावन्न कुडवो भवेत् । तुल्यमेव
२२३