________________
२२४
चिकित्साकलिका। भवेन्मानं शुष्काणां कुडवस्य च । प्रमाणं शाणकर्षकुडवादिपरिज्ञानार्थ बह्वाचार्यमतमत्र लिख्यते-'शाणं पाणितलं मुष्टिं कुडवं प्रस्थमाढकम् । द्रोणं वहं च क्रमशो विजानीयाच्चतुर्गुणम् । द्विगुणं योजयेदा कुडवादि तथा द्रवम् । पेषणालोडने वारि स्नेहपाके च निवे।" तन्त्रान्तरे क्वचित् द्रवायोर्द्विगुणत्वं निषिद्धम् । तथा च तन्त्रान्तरम्-"वासाकुटजकूष्माण्डशतपुष्पाशतावरी। नित्यमार्दा प्रयोक्तव्या न ताव द्विगुणा भवेत्। कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम् । द्वौ शाणौ वटकः कोलं बदरं द्रक्षणश्च तौ । अक्षं पिचुः पाणितलं सुवर्ण कवलग्रहम् । कर्ष बिडालपदकं तिन्दुकं पाणिमानिका । शब्दान्यत्वमभिन्नेऽर्थे शुक्तिरष्टमिकापि च । पलं प्रकुञ्चो बिल्वं च मुष्टिरानं चतुर्थिका । द्वे पले प्रमृतिस्तौ द्वावञ्जलि स्तौ तु मानिका । आढकं भाजनं कंसो द्रोणः कुम्भो घटोर्मणः । तुला पलशतं तानि विंशति र उच्यते । नागु. लिग्राहिता कल्के न स्नेहेऽग्नौ सशब्दता । वर्णादिसम्पञ्च यदा तदैनं शीघ्रमाहरेत् । घृतस्य फेनोपशमस्तैलस्य च तदुद्भवः । लेहस्य तन्तु. मत्ताप्सु मज्जनं सरणं न च । पाकस्तु त्रिविधा मन्दश्चिकणः खरचिकणः । मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे । किञ्चित्सीदति कृष्णे च वर्तमाने खरः स्मृतः दग्धोऽत ऊर्ध्व निःकार्यः स्यादामस्त्वग्निमान्दकृत् । मृदुर्नस्ये खरोऽभ्यङ्ग पाने वस्तौ च मध्यमः ।" इत्येतत्पाकलक्षणं सर्वस्नेहानामवगन्तव्यम् अनिर्दिष्टक्वाथकल्कप्रमाणेषु घृततैलादिध्वनेन मानेन सर्वत्र व्यवहारः । निर्दिष्टमाने च यथोक्तमेवेति ॥३३५॥
___ बलातैल-तिल तैल २ प्रस्थ । काथार्थ-बलामूल (खरैटी की जड़) १०० पल जल २ द्रोण, अवशिष्ट क्वाथ आधा द्रोण (८ प्रस्थ)। कल्कार्थ-शतावर, गिलोय, रास्ना, नागबला (गंगेरन), बला, सोये, पृष्टपर्णी, शालपर्णी, रेणुका, मञ्जिष्ठा, अष्टवर्ग, लालचन्दन, तगर, छोटी इलायची, असगन्ध, अगर, दारचीनी, मुलहठी, तेजपत्र, जटामांसी, शैलेय (छैलछरीला), कुठ, देवदारु; मिलित ८ पल । यथाविधि पाक करें । पक्वाशयगत वात में इस तैल की स्नेहबस्ति देनी चाहिये ॥३३५॥
रास्नादिबस्तिप्रणिधानं पश्चादुक्तं तत्प्रतिपादनार्थ रास्नादिबस्तिमाहरास्नायुपञ्चमूलीमदनफलबलामांसपथ्याक्षधात्रीकाथः सोग्राब्दकृष्णामिशिफलफलिनीकुष्ठसिन्धूत्थकल्कः ।