________________
२२२
चिकित्साकलिका।
अथ वातरोगचिकित्सा। अधुना वातरोगचिकित्सामाह
त्वङ्मांसशोणितगते पवने प्रशस्ता शृङ्गैरसृस्रतिरथामसमन्विते तु । रास्नामृतात्रिकटकोरुवुकैः सविश्वैः
सर्वाङ्गगे कथितमम्बु हितं समीरे ॥ ३३३ ॥ त्वक् च मांसं च शोणितं च तानि तथा। तेषु गते पवने वाते शृङ्गैरसृक्स्रतिः प्रशस्ता हिता। आमसमन्विते शरीरे वाते सर्वाङ्गगे रास्नादिभिः क्वथितमम्बु हितम् । रास्ना सुरभी । अमृता गुडूची। त्रिकटको गोक्षुरुकः । उरुबुक एरण्डः । विश्वं शुण्ठी इति ॥ ३३३ ॥
त्वचा, मांस, रक्त प्रभृति धातुगत वात में शृंग द्वारा रक्तनिर्हरण करना चाहिये । सम्पूर्ण शरीरगत आमयुक्त वात अर्थात् आमवात में रास्ना, गिलोय, गोखरू, एरण्डमूल, सोंठ; इनका यथाविधि साधित क्वाथ अत्यन्त हितकर है ॥३३३॥
साम्प्रतं पक्वाशयगतस्य वायोश्चिकित्सामाहपक्वाशयस्थस्य समीरणस्य बलादिनान्वासनकर्म शस्तम् । रास्नादिवस्तिप्रणिधानमत्र शतावरीतैलमथ प्रयोज्यम् ॥ ३३४ ॥
समीरणस्य वायोः पक्वाशयस्थस्य पक्वाशयगतस्य बलातैलेनान्वासनं कर्म शस्तम् ॥ रास्नादिबस्ती रास्नादिनिरूहस्तस्य प्रणिधानं दानमत्र पक्वाशयस्थस्य वायोः शस्तम् । अथानन्तरं शतावरीतैलं प्रयोज्यं प्रयोजनीयम् । तस्य पानपरिषेकाभ्यङ्गादिष्विति ॥ ३३४ ॥
पक्काशयगत वात में बलादितल द्वारा अनुवासन (स्नेहवस्ति)तथा रास्नादिवस्ति (निरूहवस्ति) देनी चाहिये । एवं पान, अभ्यंग तथा परिषेक आदि के लिये शतावरी तैल का प्रयोग प्रशस्त है ॥ ३३४ ॥
१-सर्वथापि वातरोगचिकित्सायाः कायचिकित्सायामेवान्तर्भावात् शल्यतन्त्रे ऽस्याः पठनं प्रामादिकम् । केचित्त्वेवं समादधति-यद् यतः वातरोगेषु बस्तियन्त्रमुपयुज्यते, बस्तेः वातचिकित्सायां प्रधानतमत्वात् । यथोक्तं चरके "आस्थापनानुवासनं तु खलु सर्वथोपक्रमेभ्यो वाते प्रधानतमं मन्यते भिषजः।" तस्माद् वातरोगेषु प्रधानतया बस्तियन्त्रस्य प्रयुज्यमानत्वात् यन्त्रप्रणिधानस्य च शल्यतन्त्रेऽन्तर्भावाद्वातरोगाणां शल्यतन्त्रे पठनं युक्तमिति ।