Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 12
________________ १ सर्गः] चन्द्रप्रमचरितम् । समुज्वलाभिः कनकादियोनिभिर्विकासिनीभिः खनिभिः समन्ततः । कृतास्पदा यत्र जनर्द्धिहेतुभिर्यथार्थनामा वसुमत्यजायत ॥ १८ ॥ शिखावलीलीढघनाघनाध्वभिर्बहिःस्थितैनूतनधान्यराशिभिः । विभान्ति यस्मिन्निगमाः कुतूहलादिवोपयातैः कुलमेदिनीधरैः ॥ १९ ॥ गतैः समासत्तिमिवेतरेतरश्रियामनन्यत्र भुवां दिदृक्षया । निरन्तरोद्यानवितानराजितैर्महागृहैयामपुरौर्वभाति यः ॥ २० ॥ वणिक्पथस्तूपितरत्नसंचयं समस्ति तस्मिन्नथ रेलसंचयम् । पुरं यदालानितमत्तवारणौर्वभाति हम्यैश्च समत्तवारणैः ॥ २१ ॥ गभीरनादै: 'प्रतिमानिपातिभिः पयोधरैर्मन्दसमीरणेरितैः । जलेभयूथैरिव संकुलान्तरा विराजते यत्परिखा प्रथीयसी ॥ २२ ॥ परीतशृङ्गैः स्फुरदंशुजालकैर्निशासु नक्षत्रगणैः समन्ततः । विभाति यस्मिन्परिधिः स्थिरप्रभैरिव प्रदीपप्रकरैः 'प्रबोधितैः ॥ २३ ॥ मलीमसं भृङ्गनिभेन लक्ष्मणा विलोक्यते यत्र धैनाध्वमध्यगम् । गृहैरिवा_लिहशृङ्गकोटिभिर्निघृष्टदेहच्छवि चन्द्रमण्डलम् ॥ २४ ॥ मदाभमम्भो विसृजद्भिरुल्लसत्तडिल्लतालंकरणैरधोगतैः । शरीरिणां गोपुरशृङ्गवर्तिनां वितन्यते यत्र गैजभ्रमो धनैः ॥ २५ ॥ सुगन्धिनिःश्वासमरुन्मनोहरे मनोभुवा पाण्डुनि कामिनीमुखे । समापतन्राहुरिवेन्दुशङ्कया विलोक्यते यत्र मधुव्रतव्रजः ॥ २६ ॥ निपातयन्ती तरले विलोचने संजीवचित्रासु निवासभित्तिषु । नवा वधूर्यत्र जनाभिशङ्कया न गाढमालिङ्गति जीबितेश्वरम् ॥ २७ ।। १. कनकादिधातूत्पत्तिस्थानैः. २. आकरैः. ३. पृथिवी. ४. शिखरचुम्बितमेघमार्गः. ५. प्रामाः. ६. कुलपर्वतैः. ७. सांनिध्यम्. ८. न अन्यत्र भवतीत्यनन्यत्रभुवस्तासां परस्परलक्ष्मीणाम्. ९. सान्द्रोपवनसमूहशोभितैः. १०.ग्रामाणि च पुराणि च ग्रामपुराणि तैः. ११. विपणिपुजितरत्नसमूहम्. १२. एतनामकं नगरम्. १३. स्तम्भनिबद्धमत्तगजैः. १४. प्रग्रीवकसहितैः. १५. प्रतिबिम्बितैः: १६. वारिवारणसमूहैरिव. १७. वेष्टितशिखरैः १८. प्राकारः. १९. प्रकाशितैर्दीपसमूहैरिव. २०. आकाशगतम्. २१. गोपुरशृङ्गापेक्षया नीचैः स्थितैः. २२. जीवचित्राणि पुत्तलिकाविशेषास्तत्सहितासु.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 190