Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमो लम्मः । णीवलयः, सरोजसंभव इव सकलसारस्वतामरसभानुभलिः, भद्रगुणोऽप्यनागो, विबुधपतिरपि कुलीनः , सुवर्णधरोऽप्यनादित्यागः, सरसार्थपोषकवचनोऽपि नरसार्थपोषकवचनः, आगमाल्याश्रितोऽपि नागमाल्याश्रितः । कीर्तियेस्य दिगङ्गनाकुचतटीपाटीरसंवादिनी . तेनःश्रीः किल तत्र कुङ्कमळतालंकारशङ्कावहा । आज्ञा यस्य महामहीशमकुटीप्वाकल्पमालायते यत्सेवा सहदर्थिनां परिचिता स्वर्गद्रुवर्गायते ॥ २२ ॥ यस्मिन्छासति महीमण्डलं मदमालिन्यादियोगो मतदन्तावलेपु, परागः कुसुमनिकरेषु, नीचसेवना निम्नगासु, आर्तवत्वं फलितव नराजिषु, करपीडनं नितम्बिनीकुचकुम्भेपु, विविधार्थचिन्ता व्याख्यानकलासु, नास्तिवादो नारीमध्यप्रदेशेषु, गुणभङ्गो युद्धेषु, खल. सङ्गः कलमकुलेषु, अपाङ्गता कुरङ्गाक्षीलोचनतरङ्गेषु, मलिनमुखता मानिनीस्तनमुकुलेषु, आगमकुटिलता भुजङ्गेषु, अजिनानुरागः शूलपाणी, सोपसर्गता धातुषु, दरिद्रभावः शातोदरीणामुदरेषु, द्विजिद्वता फणिपु, पलाशिता विपिनतरुपण्डेषु, अधररागः सुदतीमुखकम लेगु, तीक्ष्णता कोविदबुद्धिषु, कठिनता कान्ताकुचेषु, नीचता नाभिगहरेषु, विरोधः पञ्जरेपु. अपवादिता नीरोप्ठ्यकाव्येषु, धनयोगभङ्गो वर्षावसानेषु, कलिकोपचारः कामसंतापेषु, कलहंसकुलं क्रीडासर. सीषु परमेवं व्यवस्थितम् । वकं चन्द्रप्रभं यद्भुजयुगमजितं यस्य गात्रं सुपार्श्व कृत्यं स्वाधीनधयं वदि पुरुचरितं शीतलं सुव्रताट्यम् । राज्यं श्रीवर्धमानं कुलमतिविमलं कीर्तिवृन्दं त्वनन्तं सोऽयं प्रत्यक्षतीर्थेश इव विजयते विश्वविद्याविनोदः ॥२३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 162