Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 26
________________ चतुष्कम् ) स्वोपक्षप्रेमप्रभावृत्तिसुशोभिता भवस्थितिः [३ प्रकर्षेण त्रिकरणयोगेन नत्वा प्रणिपातं. विधाय “प्राक्काले' (सि० ५.४-४७) इत्यनेन व्याकरणसूत्रेण प्राकालार्थे क्त्वाप्रत्ययस्य विधीयमानत्वेनोत्तरक्रियामापेक्षत्वादुत्तरक्रियामाह. "वोच्छ” 'वक्ष्ये' मणिष्यामि शन्दतो निरूपणाविषयी. करिष्यामीति यावत् । किम् ? इत्यत आह- "भव ठिई" ति 'भवस्थिति' भवस्य-नरकगत्यादिपर्यायरूपस्य भवे वा= नरयिकादिपर्यायरूपे स्थान स्थितिः जघन्योत्कृष्टावस्थानकालात्मिका भवस्थितिः नरकगत्याद्यन्यतरैकमवसत्कजघन्योस्कृष्ट कालावस्थानलमणा, ताम् , भवस्थितिम्=एकभवजघन्योत्कृष्टायूरूपाम् । कुत्रेत्यत आह-ओहे गहई दियकायवेअसणीसु" ति ओघे गतीन्द्रियकायवेदसंज्ञिषु' ओघे-नरकगत्यादिमार्गणाविशेष विना सामान्यतः प्ररूपणायां तथा विशेषतो गतीन्द्रियकायवेदसंज्ञिरूपमूलमार्गणापश्चकसत्कत्रयोदशाधिकशतोत्तरमार्गणाभेदेष्विति । ननु किं स्वशक्तिसामर्थेन स्वमनसा वक्ष्य उता. ऽन्यथेत्यत आह-'अत्तसुया" ति, 'आप्तश्रुतात्' "गम्ययपः कर्माधारे" (सि.२.२-७५) इति व्याकृतिवचनेनाऽऽप्तश्रुतमाश्रित्य, न पुनः स्वतन्त्रतया स्वशक्तिप्रभावेन स्वमनीषिकयेति यावत् अनेन च ग्रन्थकृता स्वस्योद्धतत्वं .

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56