Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
अवस्थितिः ] स्वोपज्ञ- प्रेमप्रभावृत्तिसुशोभिता भवस्थिति: [ १७ किमुक्तं भवति - बादराप्कायिकौष-पर्याप्तवादराकायिकयोरुत्कृष्टा भवस्थितिः सप्तसहस्रवर्षमाना भवति । बादरवायुकायिकौ ध-पर्याप्तचादरवायुकायिकयोज्येष्ठा भवस्थितिस्त्रिसहस्रहायनमानाऽस्ति, बादरतेजः कायिकौध-पर्याप्तबादरतेजः कायिकयोर्गुर्वी भवस्थितिस्त्रयोऽहोरात्रा भवति ।
उक्तश्च श्रीमत्यां प्रज्ञापनायाम् - "बायरभाउकाइयाणं पुच्छा गोयमा ! जहन्नेणं अंतोमुहुत्त उक्कोसेणं सप्तवाससहस्सा इं... बायरने उकाइयाणं पुच्छा, गोयमा ! जहन्नणं अतो मुहुसं एक्कोसेoर्ण तिन्नि राईदियाई,... .....बायरवा उकाइयाणं पुच्छा, गोयमा ! जहन्नेणं प्रतोमुहुत्तं उक्कोसेणं तिनि बाससहस्साई, ( प. ४, सू. ६६ | म . १. पत्र. ११२ ) इति ।
एषा च वादरा कायिकादीनां सामान्यानां ज्येष्ठा भवस्थितिरेवोदिता, तथाऽपि सा पर्याप्तवादरा कायिकादीनामपि द्रष्टव्या, अपर्याप्तबादराणामन्तर्मुहूर्त मात्र स्थितिकत्वेन पर्याप्तबादरापेक्षयैव बादरा कायिक सामान्यादीनामुत्कृष्टभवस्थितेः सम्भवात्, किश्च पश्च संग्रहवृत्तौ यथाक्तप्रमाणा प्रकृष्टा भवस्थितिः पर्याप्तवादरा कायिकादीनां श्रीमन्मलयगिरिसूरिपादैः प्रोक्ता । तथा च तद्ग्रन्थ:- "बाबरपर्याप्राकायिकानां सप्तवर्षसहस्राणि, बादरपर्याप्ततेजस्कायिकानां त्रयो ऽहोरात्राः । पर्याप्तवादवायुकायिकानां त्रीणि वर्षसहस्राणि (द्वा. २. गा०३५ / मा. १, पत्र. ७०-२ ) इति ।
श्रीप्रज्ञापनायां तु पयाप्तभेदेषु करणपर्याप्तविवक्षयाऽन्त हर्मोना यथोक्तमाना ज्येष्ठभवस्थितिः पर्याप्तबादराकायिकादित्रयस्य गदिता, स च विवक्षाभेदः प्रागेव कथितः ॥ ६ ॥
...............
•

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56