Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
२० ] मुनिश्री वीरशेखरविजय निर्मिता [ गत्यादिभेदानामुत्कृष्टप्रमाणत्वेन तदपेक्षया यथोक्तभवस्थितेरलाभात् ।
देवीसत्का यथोक्तमान । ज्येष्ठभवस्थितिश्च श्रीप्रज्ञापनासूत्रादिषु प्रतिपादिता । तथा चात्र प्रज्ञापनासूत्रम्
'वैमाणियाणं भंते! देवीणं केवइयं कालं ठिती पण्णत्ता ?, गोयमा ! जहन्नेणं पलिभोवमं उक्कोसेणं पणपन्न पलिओ माई, ( पद. ४, सू. १०२ भा-१, पत्र. १७६०१ ) इति ।
"भवे" इत्यादि, 'असंज्ञिनो ज्येष्ठा भवस्थितिः पूर्वकोटिर्भवेत्, एषा च पूर्वकोटी पर्याप्तजलचरासंज्ञयपेक्षया विज्ञेया, न शेषासंज्ञिनोऽधिकृत्य, तेषामेतावत्या उत्कृष्ट भवस्थितेरभाषात् । तथाहि पर्याप्तजलचरासंज्ञिनो ज्येष्ठा भवस्थितिः पूर्वकोटि, पर्याप्तचतुष्पदस्थल चरा संज्ञिनश्चतुरशीतिवर्षसहस्राणि, पर्याप्तोरः परिसर्पस्थलचरासंज्ञिनस्त्रिपञ्चाशद्वर्षसहस्राणि, पर्याप्तभुज परिसर्पस्थलचरासंज्ञिनो द्विचत्वारिंशद्वर्षसहस्राणि, पर्याप्तखेचरासंज्ञिनो द्विसप्ततिवर्षसहस्राणि । यदुक्तम्
"सम्मुच्चपुण्वकोडी, चडरासीई भवे सहस्साई । तेवण्णा बायाला, बावन्तरि चैत्र पक्खीणं ॥" इति ।
तेन पर्याप्तजलचरासंज्ञिमाश्रित्या संज्ञिसत्का पूर्वकोटिप्रमाणा गुरुमवस्थितिः प्राप्यते, न शेषासंज्ञयपेक्षया । माधोतरार्धेन प्रकृतशेषमार्गणानां प्रकृतज्येष्ठभवस्थितिः कथ्यते
भिन्नमुत्तमियर गइ - इंदियकायपणतीसाए ||८|| (प्रे० ) " भिन्नमुत्त०" इत्यादि. 'इतरगतीद्रिय कायपश्चत्रिंशतः उक्तनरकगत्योषाद्यष्टसप्ततिं विना गतीन्द्रियकाय सत्कानां शेषाणामपर्याप्तपञ्चेन्द्रियतिर्यगादीनां पञ्चत्रिंश

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56