Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
भवस्थितिः ] स्वोप-प्रेमप्रभावृत्तिसुशोभिता भवस्थितिः [ २१ द्भदानां ज्येष्ठा भवस्थितिः 'भिन्नमहूर्तम्' अन्तम हतप्रमाणा भवति.प्रोक्ताना मध्ये कतिपयानामपर्याप्तत्वेन कियतो ररूपत्वेन केषाश्चित्साधारणशरीरवनस्पतिकायमेदत्वेन चोत्कृष्टभवस्थितेरन्तमुहूर्तप्रमाणत्वात । यदुक्तं श्रीजीवसमासे
'एएसि च जहणं, उभयं साहारसव्वसुहमाण । अंतोमुहुत्तमाऊसव्वापज्जत्तयाणं च ॥२१॥" इति । एवं प्रज्ञापनासत्रादिग्रन्थान्तरसंवादोऽपि वक्तव्यः ।
शेषा अपर्याप्तपञ्चेन्द्रियतिर्यगादयः पश्चत्रिंशद्भेदा नामतश्चेमा:-अपर्याप्तपञ्चेन्द्रियतिर्यगऽपर्याप्तमनुष्य-सूक्ष्मकेन्द्रियपर्याप्तसूक्ष्मैकेन्द्रिया - ऽपर्याप्तसूक्ष्मैकेन्द्रिया • ऽपर्याप्तवादरकेन्द्रियाऽपर्याप्तद्वीन्द्रिया-ऽपर्याप्तत्रीन्द्रिया - ऽपर्याप्तचतुरिन्द्रिया-ऽपर्याप्तपञ्चेन्द्रिय-सूक्ष्मपृथिवीकाय-पर्याप्तसूक्ष्मपृथिवी. काया-ऽपर्याप्तसूक्ष्मपृथिवीकाया ऽपर्याप्तबादरपृथ्वीकाय-सूक्ष्मा. काय - पर्याप्तसूक्ष्माप्काया-ऽपर्याप्तसूक्ष्माकाया-ऽपर्याप्तबादरा. काय-सूक्ष्मतेजाकाय पर्याप्तसूक्ष्मतेजाकाया-ऽपर्याप्तसूक्ष्मतेज. स्काया-ऽपर्याप्तवादरतेजस्काय-सूक्ष्मवायुकाय-पर्याप्तसूक्ष्मवायुकाया-ऽपर्याप्तसूक्ष्मवायुकाया-ऽपर्याप्तवादरवायुकाय-साधारणशरीरवनस्पतिकाय - सूक्ष्मसाधारणशरीरवनस्पतिकाय-पर्याप्त सूक्ष्मसाधारणशरीरवनस्पतिकाया- ऽपर्याप्तसूक्ष्मसाधारणशरीर. वनस्पतिकाय-बादरसाधारणशरीरवनस्पतिकाय-पर्याप्तवादरसाधारणशरीरवनस्पतिकाया-ऽपर्याप्तवादरसाधारणशरीरवनस्पति. काया-ऽपर्याप्तप्रत्येकशरीरवनस्पतिकाया-ऽपर्याप्तत्रसकायाः।
तदेवं गतीन्द्रियकायवेदसंझिलक्षणमूलसत्कोत्तरमेदानां ज्येष्ठा भवस्थितिः प्रतिपादिता ॥८॥॥इति भवस्थितिः ॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56