Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 41
________________ १८ ] मुनिश्रीवीरशवरविजयनिर्मिता [ गत्यादिभेदानामुत्कृष्ट साम्प्रतं गाथापूर्वार्धन वनस्पतिकायभेदत्रयस्य ज्येष्ठा भवस्थितिः कथ्यतेवासा-ऽस्थि दस सहस्सा, वणपत्तेअवणतस्समत्ताणं । _ (प्रे०) "वासा" इत्यादि, 'वनप्रत्येकवनतत्समाप्ताना' पदैकदेशे पदसमुदायस्य गम्यमानत्वाद् वनशब्देन वनस्पतिकायग्रहणसम्भवात् समाप्तशब्दस्य पर्याप्तार्थत्वाच्च वनस्पतिकायौघस्य प्रत्येकशरीरवनस्पतिकायसामान्यस्य पर्याप्तप्रत्येकशरीरवनस्पतिकायस्य चोत्कृष्टा भवस्थितिर्दश सहस्राणि वर्षाण्यस्ति । तथा चात्र वनस्पतिकायौघसत्कोत्कृष्टभव. स्थितौ श्रीप्रज्ञापनासूत्रवचनम्-वणफहकारया भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अतोमुहुत्तं उक्कोसेणं दस वाससहस्साई,"(प. ४,सू. ६६मा.१, पत्र. १७२-२) इति । एषा च वनस्पतिकायसामान्यस्य गुर्वी भवस्थितिः प्रत्येकशरीरवनस्पतिकायापेक्षया भवति, प्रत्येकशरीरवनस्पति. कायस्या-ऽपि सा पर्याप्तप्रत्येकशरीरवनस्पतिकायमाश्रित्य प्राप्यते, ततः प्रत्येकशरीरवनस्पतिकाय-तत्पर्याप्तमेदयोरपि यथोक्तमानव ज्येष्ठा भवस्थितिः सिध्यति । किश्च श्रीमलयगिरिसुरिपाद पनसंग्रहवत्तौ पर्याप्तप्रत्येक शरीरवनस्पतिकायस्य यथोक्तमाना प्रकृष्टा भवस्थितिः प्रतिपादिता । तदक्षराणि स्वेवम्- "पर्याप्तवादरप्रत्येकवनस्पतीनां दश वर्षसहस्राणि" (द्वा-२, गा.३।भा.१,पत्र.७..२)इति। तथा श्रीजोवसमासे तद्वृत्तौ च प्रत्येकवनस्पतिकायसामान्यस्य यथोक्तमाना प्रकृता भवस्थितिरुक्ता । तथा चोक्तं श्रीजीवसमासे-"बावीससत्त तिणि च,वाससहस्साण दस य उक्कोसा। पुढविदगानिल त्तेय. तरुसु तेऊ तिरायं च ॥२०७॥" इति । एवं तद्वत्तावपि ।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56