Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
१४ ] मुनिश्रीवीरशेखरविजयनिर्मिता [इन्दिय-कायभेदानामुत्कृष्ट
___तत्र च पृथिवीकायसामान्य-चादरपृथिवीकाययोर्यथोक्तमाना ज्येष्ठा भवस्थितिः श्रीप्रज्ञापनादिग्रन्थेषूदिता । तथा चोक्तं श्रीप्रज्ञापनासूत्रे चतुर्थे स्थितिपदे"पुढविकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नणं मंतोमुहुत्तं उक्कोसेणं बावीसं बाससहस्साई ... . वायरपुढविकाइयाणं पुच्छा, गोयमा ! जहन्मेणं अंतोमुहुत्तं उक्कोसेण बावीसं वाससहस्साई" (सू०६६/भा.१,पत्र.१७१-२) इति ।
पृथ्वीकायिकौघ-बादरपृथ्वीकायिकयोरुक्तप्रकृष्टकायस्थितिर्हि पर्याप्तबादरपृथिवीकायिका-ऽपेक्षया सम्भवति, अपर्याप्तवादरपृथ्वीकायिकस्योत्कृष्ट भवस्थितेरप्यन्तमुहूर्तमात्रस्थितिकत्वात् ।
तेन पर्याप्तबादरपृथिवीकायस्य ज्येष्ठभवस्थितिः सहस्रवर्षाणां द्वाविंशतिर्भवति ।
उक्तश्च श्रीमलयगिरिसूरिपादः पञ्चसंग्रहवृत्तौ.. ___ "तथाहि-उत्कृष्टा भवस्थिति दरपर्याप्तपृथिवीकायिकानां द्वाविंशतिवर्षसहस्राणि (द्वा.२, गा. ३५।भा.१, पत्र० ७०-२) इति ।
तदेवं दर्शितनीत्या षण्णामप्येकेन्द्रियौघादीनामुत्कृष्टभवस्थितिविंशतिसहस्रवर्षप्रमाणा संगच्छति । यद्यपि श्रीप्रज्ञापनायां पर्याप्तबादरपृथिवीकायिकस्य गुरुभवस्थितिरन्तमहानद्वाविंशतिसहस्रवर्षमाना भणिता, तथा-ऽपि सा विवक्षाभेदेन द्रष्टव्या, एतच्च प्रागेव पर्याप्ततिर्यक्पञ्चेन्द्रियभवस्थितिनिरूपणावसरे स्पष्टीकृतम् ॥४॥
एतहा कया गाथया द्वीन्द्रियौषादीनां षण्णां प्रकृष्टी भवस्थिति प्रतिपादयितुकाम आह

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56