Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ १२ [ मुनिश्री वीरशेखर विजयनिर्मिता [ गत्यादिभेदानामुत्कृष्ट।। अथाऽऽदेशत उत्कृष्ट भवस्थितिः ॥ इदानीं सार्धगाथापश्चन शेषपञ्चसप्ततेर्मार्गणानामुत्कृष्टभवस्थिति व्याहतु काम आदौ शेषगाथोत्तरार्धेन तिर्यग्भेदचतुष्कस्य मनुष्य भेदत्रिकस्य च तामाहगुरुभवठिई तिपल्ला, तिरितिपणिदिति रियणराण | ३ (प्रे० ) " गुरु ०" इत्यादि, 'तिर्यकृत्रिपञ्चेन्द्रियतिर्यग्नगणाम्' तिर्यक सामान्य पञ्चेन्द्रियतिर्यगोध-पर्याप्तपञ्चेन्द्रिय तिर्यक् तिरखी मनुष्यौघ-पर्याप्त मनुष्य मानुषीरूपाणां सप्तानां मार्गणानां 'गुरुमवस्थितिः 'ज्येष्ठा भवस्थितिः 'त्रिपल्या 'श्रीणि पल्योपमाणि भवति, युगलिकतियग्मनुष्ययोरुत्कृष्टत एकस्मिन् भवे यथोक्तकालं यावदवस्थानात् यथासंभवं च युगलिकतिर्यग्मनुष्यापेक्षयैव प्रकृतज्येष्ठभवस्थितेरुक्तमार्गणासु सम्भवात् । यदुक्तं श्रीजीवसमासे- 'नरतिरियाणं तिपल्लं च ।। २०८ ||" इति । तथा श्रीजीवाजीवाभिगमे - "तिरिक्खजोणियाणं जहन्नेणं अंतोमु, उक्को सेणं तिनि परिभवमाह । एवं मगुस्साणं वि ।" ( प्रति. ३, सू. २२२ / पत्र. ४०६ / २ ) इति । एवं श्री प्रज्ञापनादिष्वपि । न च श्रीप्रज्ञापनासूत्रे पर्याप्तपञ्चेन्द्रियतिर्यक्-पर्याप्तमनुष्ययोरुत्कृष्ट भवस्थितिरन्तमुहूर्तोनपन्योपमत्रयमाना भणिता, इह पुनः सम्पूर्णपन्योपमत्रयप्रमाणा, ततः श्रीप्रज्ञापनया सहास्य ग्रन्थस्य कथं न विरोधः ? इत्याशङ्कनीयम् यतो विवक्षाभेदेनोभयत्र भिभोक्तेरविरोधो वर्तते । तद्यथा - श्रीप्रज्ञापनासूत्रे करणपर्याप्तान् जीवान् प्रतीत्य प्रस्तुता गुरुभवस्थितिः प्रतिपादिता, 9

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56