Book Title: Bhavsthiti Part 02
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
भवस्थितिः ] सोपज्ञ प्रेमप्रभावृत्तिसुशोमिता भवस्थितिः [ १३ तेन तत्र करणापर्याप्तसत्केनान्तमहर्तेनोना भणिता , इह पुनः पर्याप्तनामकर्मोदयवतो लब्धिपर्यातानाश्रित्य प्रोक्ता, तेनात्र यथोक्तमाना गदिता । इत्थं चात्र विवक्षाभेद एव, न पुनर्मतान्तरं विरोधो वा । एवमन्यत्रा-ऽपि ज्ञेयम् ।।३।।
. इदानीमेकेन्द्रियौघादिमार्गणाषट्कस्योत्कृष्टभवग्थितिरेकया पथ्यार्यया निगद्यतेएगिदिय-पुहवीणं, वरिससहस्साणि होइ बावीसा। सा चेव होइ तेसिं, बायर-वायरसमत्ताणं॥४॥
(प्रे०)"एगिदिय०'इत्यादि, एकेन्द्रियपृथिव्योः एकेन्द्रियौध-पृथिवीकायौधयोरुत्कृष्टा भास्थितिविंशतिवर्षसहस्राणि भवति, 'तेषां बादरवादरसमाप्तानां तन्छन्दस्य पूर्ववस्तुपरामर्शित्वात्समाप्तशब्दस्य पर्याप्तपर्यायवाच्च वादरैकेन्द्रियपर्याप्तबादरैकेन्द्रिय बादरपृथ्वीकाय-पर्याप्तबादरपृथ्वीकायानामुत्कृष्ट भवस्थिति: 'सा चेच' अनन्तरोक्तैकेन्द्रियोघ पृथ्वीकायौषज्येष्ठमवस्थितिप्रमाणैव द्वाविंशतिसहस्रवर्षाणि भवति, इहैकन्द्रियभेदत्रयस्योत्कृष्टा भवस्थितिः पृथ्वीकायिकापेक्षया ज्ञातव्या, शेषाणामकायिकादीनां ज्येष्ठमवस्थितेः स्तोकत्वात् । तथा श्रीपञ्चसंग्रहमलयगिरिसरिवृत्तावपि भणितम्
तत्र पर्याप्रबादरैकेन्द्रियाणां द्वाविंशतिवर्षसह खाण्युत्कृष्टा भवस्थितिः, सा च बादरपृथ्वोहा यकैकेन्द्रियापेक्षया द्रष्टव्या,न शेषकेन्द्रियापेक्षया, शेष केन्द्रियाणामेतावत्या भवस्थितेरभावात" (द्वा.२.गा.३५/भा.१,पत्र.७०.२) इति ।

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56