Book Title: Avashyak Niryukti Part 07
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 304
________________ परिशिष्टम् - १ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं हरिभद्रीयावश्यकवृत्तिटीप्पणकम् ननु त्रयस्त्रिंशदाशातनापर्यन्तान्येव प्रतिक्रमणस्थानानि उतान्यान्यपि सन्तीत्याशङ्याह-'एयं सुत्तनिबद्ध 'मित्यादि (१-४), व्याख्या-एतत्तावत्पूर्व दिग्मात्रप्रदर्शनाय सूत्रनिबद्धं प्रतिक्रमणस्थान- 5 कदम्बकमुक्तं, न चैतावदेवैतदिति मन्तव्यं अपरस्यापि चतुस्त्रिंशदादेरनन्तपर्य्यवसानस्य प्रतिक्रमणस्थानस्यार्थतोऽत्र सूचितत्वात्, तदपि चासंमोहार्थमोघतः-सामान्येनाहं प्रवक्ष्यामीतिगाथार्थः, यथाप्रतिज्ञातमाह 'तेत्तीसाए' गाहा (१-५), त्रयस्त्रिंशदाशातनास्थानेभ्य उपरि चतुस्त्रिंशद्वचना(बुद्धा)तिशेषाःचतुस्त्रिंशत्तीर्थक्करातिशयाः प्रतिक्रमणीयत्वेन वक्तव्याः ते च प्रतीता एव, तथा पञ्चत्रिंशद्वचनातिशया वक्तव्याः, तेषां च स्वरूपं न विवियते विशिष्टसम्प्रदायाभावात्, तथा षट्त्रिंशदुत्तराध्ययनानि वाच्यानीति- 10 गाथार्थः । इदानीं शतस्थानकं यावद्गाथार्द्धनातिदेशमाह-एवं यथा समवाये तथैव सप्तत्रिंशदादिस्थानानि तावद्वक्तव्यानि यावच्छतस्थानके "सइभिसयानक्खत्ते सयतारे पन्नत्ते" इति । साम्प्रतमुत्तरार्द्धन शतस्थानकादुपर्यपि प्रतिक्रमणस्थानानि पश्यन्नतिबहुत्वेन तद्भणने सामर्थ्यमपश्यन्नतिदेशमाह-इति सङ्ख्येयैरसङ्ख्येयैरनन्तैश्च परमाणुस्कन्धजीवराश्यादिभिः स्थानैः कृत्वा यः संयमस्यासंयमस्य वा सम्बन्धित्वेन प्रतिषिद्धाद्याचरणरूपोऽतिचारस्तस्य भवति प्रतिक्रमणमित्युत्तरगाथायां संटङ्कः। तेत्तीसेहिं 15 तु ताणि पुणो 'त्ति (१-८) तानि पुनः संख्येयासंख्येयानन्तानि प्रतिक्रमणस्थानानि त्रयस्त्रिंशदाशातनारूपेष्वन्तर्गतानि साण्यपि नियमाद् भवन्तीति उत्तरगाथायां सम्बन्धः, पक्षान्तरमाह-'सव्वो वऽइयारगणो'इत्यादि (१-९), इदमुक्तं भवति-किञ्चास्माकं मतेन त्रयस्त्रिंशदाशातनापदेष्वपान्तरालिकान्तर्भावेन तान्यपि हि आशातनापदान्यपरोऽपि च द्विकसंयोगादिको य एष "पडिक्कमामि दोहि बंधणेहि" इत्यादिपदोपात्तः संख्येयासंख्येयानन्तपदैश्चानन्तरनिर्दिष्टः स सर्वोऽप्येकविधस्यासंयमस्य 20 'पडिक्कमामि एगविहे असंयमे' इत्यादिपदोपात्तस्य भवति पर्यवसमूहो-भेदसमूहस्तत्प्रपञ्चः सर्वोऽप्येष भवतीत्यर्थः, इत्यनन्तरगाथायां मीलनीयं, उत्तरग्रन्थस्य सम्बन्धमाह-एवमतिचारशुद्धिं कृत्वा करोति नमस्कारमृषभादीनामितिगाथाचतुष्टयार्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायेति (८-६) जावंत केवि साहू रयहरणगोच्छेत्यत्र वक्ष्यमाणा ये साधवस्तेषां भावशून्यं द्रव्यवन्दनमिदं मा भूदिति विशेष्यतेमायामृषावर्जित इतिभावार्थः ॥ प्रतिक्रमणाध्ययनं समाप्तमिति ॥साम्प्रतं कायोत्सर्गनियुक्तिरारभ्यते- 25 सा च प्रायः सर्वैव सुगमा, नवरं निकायकायव्याख्यायां एवं जीवनिकायः सामान्येन निकायकायो भण्यते' इत्यादि (२४-२) एतदुक्तं भवति-एकाद्यसंख्येयान्तः पृथ्वीस्कन्धः कायत्वेन विवक्षितस्तदधिकोद्धरितसजातीयपृथ्वीकायिकप्रक्षेपे सोऽपि निकाय इत्युच्यते, एवमेकाद्यसंख्येयान्ताप्कायस्कन्धः कायः तदधिकोद्धरिताप्कायिकजीवप्रक्षेपे स एव निकायः, एवं तेजोवायुवनस्पतिष्वपि वाच्यं, एवं च * પ્રથમ અંક પાના નંબર અને બીજો અંક પંક્તિ નંબર સૂચવે છે. 30

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356