Book Title: Avashyak Niryukti Part 07
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 312
________________ परिशिष्टम् - १ * 3०१ पारयति, ननु पर्युषणायां यदष्टमलक्षणं तपः क्रियते तदसौ क्षपकस्तहि कदा करिष्यतीत्याह-'पज्जोसवणा - ओसारिय'त्ति (२२८-५), यत्तेन मासक्षपणादिकं तपः कृतं तत्रैव तत् तपोऽन्तर्भाव्यत एवेति भावः, यदिवा तीरं न प्राप्तः किन्तु विवक्षिततपस्यपरिसमाप्तेऽप्यसहिष्णुरिति स्वयं गुरुभिस्तत्र दिने पारणकं कारित इत्येतदेवाह-'असहू सयं पारावितो'त्ति (२२८-५), तत्र विधिमाह-'ताहे सय'मित्यादि सुगमं । 'नियंटितं नाम नियमिय'मित्यादि (२३१-११), तत्रैकेन प्रकारेण तावन्नियन्त्रितं तपः प्राह- 5 'जहा एत्थ कायव्वं'ति एतस्मिन्समये मासे दिवसे वा विवक्षिते तपः स्याद्विवक्षितं किञ्चित् नियमेन तावत्कर्त्तव्यमित्येव कश्चिन्नियम्य ततस्तपः करोति, प्रकारान्तरेणाह-'वोच्छिन्नं अहवा छिन्नं जहा इत्थ अवस्सकायव्व'-मित्यादि, पूर्वमेव छिन्नं-विशेषितं अभिग्रहं गृह्णाति, कथमित्याह-मासे अमुगे अमुगो चउत्थाइ तवो अमुगदिवसे इति चूर्णिणपाठः, प्रथमे नियमः सामान्यतो द्वितीये तु मासदिवसतपांसि विशिष्य नियमयतीति विशेष इति तात्पर्यार्थः । 'आयंबिलं च भवति आयंबिलपाउग्गं चे'त्यादि 10 (२६३-५), 'आचाम्लं नामोत्कृष्टं शालिकूरादिद्र व्यं तेन किलाचाम्लं क्रियते अत उपचारात्तदप्याचाम्लमुक्तं, इदं चोत्कृष्टत्वात्प्रायो न गृह्यते एवेत्यत आह-"आयंबिलं पाउग्गं चे"ति, एतच्च तन्दुलकणिकादि द्रष्टव्यं, अस्य च निरपवादं ग्राह्यत्वात्प्रायोग्यत्वमुक्तमिति, एतच्चाचाम्लं पूर्वमोदनसत्कुककुल्माषभेदात्रिधोक्तं, तत्रौदनमाश्रित्याचाम्लं प्रायोग्यं च दिदर्शयिषुराह-'तत्थ ओयणे आयंबिलं चे'त्यादि (२६३-६), ओदनविषये आचाम्लं भवति, किं तदित्याह-सप्त लोकप्रसिद्धाः 15 कलमशाल्यादिकूरविशेषाः, यदिवा न सप्तैव, किन्तु यानि कानिचिल्लोके कूरविधानानि-कूरभेदास्ते सर्वेऽप्याचाम्लं उच्यते, ओदनमाश्रित्य प्रायोग्यं, किं तदित्याह-तन्दुलकणिकाः प्रतीताः कुण्डकस्तु तन्दुलकणिकाविशेष एव कश्चिदिति लक्ष्यते, पिष्टं पिष्टपूपलिकाश्च प्रतीताः "पिहुगं"ति पिहुंक: भरोला निस्वेदितलोट्टपिण्डिका-जनप्रतीता:मण्डकास्तु-पर्युषितोत्स्वेदिता गृह्यन्त इति व्याचक्षते गुरवोऽन्येषामुत्कृष्टत्वात्, तत्त्वं तु केवलिनो विदन्तीति। साम्प्रतं कुल्माषानाश्रित्याचाम्लं प्रायोग्यं च 20 दिदर्शयिषुराह-'कुम्मासा पुण पुव्व'मित्यादि (२६३-८) सुगमं । सक्तूनाश्रित्याह–'सत्तुगा जवाण'मित्यादि सुबोधं, नवरं गोधूमयवभूज्जिकाधाणिका, शेषं प्रायः सुगमं यावत् प्रत्याख्याननियुक्तिः समाप्तेति । तत्समाप्तौ श्रीमदभयदेवसूरिचरणाम्बुजचञ्चरीकश्रीहेमचन्द्रसूरिविरचितमावश्यकवृत्तिप्रदेशव्याख्यानकं समाप्तमिति ॥ इति गुरुजनमूलादर्थजातं स्वबुद्ध्या, यदवगतमिहात्मस्मृत्युपादानहेतोः । तदुपरचितमेतत् यत्र किञ्चित्सदोषं, मयि कृतगुरुतोषैस्तत्र शोध्यं मुनीन्द्रः ॥१॥ छद्मस्थस्य हि मोहः कस्य न भवतीह कर्मवशगस्य ? । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ।।२।। ग्रन्थाग्रं ४६०० छ । शुभं भवतु ।।. श्री ।। । मलधारगच्छीयश्रीमदभयदेवसूरिशिष्यश्रीमद्धेमचन्द्रसूरिविर चितमावश्यकहारिभद्रीवृत्तिटीप्पणकं समाप्तिमगमत् ।।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356