Book Title: Avashyak Niryukti Part 07
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 310
________________ परिशिष्टम् - १२८८ ततः पुनरप्येकश्चतुर्षु क्षिप्तो जाताः पञ्च उपरितनस्तु दशको वर्ज्यते एवमेते गुणाकारा जाताः, केषामितिचेदित्याह–‘“छच्छक्कगगुणियाणं "ति षण्णां च षड्भिर्गुणितानां चेत्यर्थः, एतदुक्तं भवतिषट्कस्य पञ्चको गुणाकारकस्तस्मिश्च षट्के षड्भिरेव गुणिते यो राशिस्तस्य दशको गुणकारकस्तस्यापि राशेः षड्गुणितस्य पञ्चको गुणकारस्तस्यापि षड्गुणितस्यैकको गुणकारकः, एतैश्च गुणकारकैर्गुण्यराशौ गुणते सति यल्लभ्यते तेन सह देवकुलिका स्थापना निदर्श्यते सा च पत्रादौ लिखिता अयं च भावार्थ:- पञ्च किलैककसंयोगाः ते च प्रत्येकं षट् भङ्गान् लभन्ते अतः षट् पञ्चभिर्गुणिता त्रिंशत् तथा दश द्विकसंयोगाः ते च प्रत्येकं षट्त्रिंशतं २ भङ्गान् लभन्ते अतो दशभि: षट्त्रिंशद् गुणिता लब्धं षष्ट्यधिकानि त्रीणि शतानि भङ्गानां तथा दश त्रिकसंयोगाः पञ्च चतु:संयोगाः एकस्तु 10 पञ्चकसंयोगः, शेषं पूर्व्ववदेवेति, अत्र यन्त्रमस्ति, एवं नवैकविंशत्येकोनपञ्चाशद्भङ्गपक्षेऽप्यनया दिशा देवकुलिकारचनाभङ्गाः समानेतव्याः १६८०६ || केवलं 'छच्छक्कगगुणिआण' मित्यस्य स्थाने 'नवनवहियगुणियाण’मित्याद्यालापकभेदो विधेयो, द्वादशापि च व्रतान्युक्तक्रमेण भावनीयानीतिगाथार्थ: । 'जस्स विसोहीए होइ उवलद्धं ति (१३१ – १०), तत्र 15 विशोधिर्नाम जीवस्य विशुद्धिकारित्वात्प्रत्याख्यानमुच्यते तद्विषय इत्यर्थः, शेषं सुगमम् । 'खोलपुरिसो सुणेज्जा सो वा इयरो वा 'इत्यादि (१७३ –४), खोलो - राजपुरुषविशेषस्तेन तस्मिन्नभ्याख्यानव . श्रुते यदि तत्सत्यं तदा अभ्याख्येयपुरुषो राज्ञः सकाशान्मार्यते दण्ड्यते वा अथासत्यं तत् तदा स एवासदभ्याख्याता तथा कृत्वा निगृह्यते, कस्मात्पुनः सोऽभ्याख्येयो मार्यते दण्ड्यते वेत्याह- ' एवंगुणो एस'त्ति (१७३–५), चौरत्वादिगुणोपेतोऽसावितिकृत्वा इत्यावश्यकचूण्णिपाठो, वृत्तिपुस्तकेषु त्वन्यथापि 20 क्वचिद्दृश्यते नचासौ सम्यगवबुध्यत इत्युपेक्षितः, दोषान्तरमाह - ' भएणे 'त्यादि, एतदुक्तं भवतितस्मिन्नभ्याख्यानवचसि राजपुरुषादिना श्रुते सति सोऽभ्याख्येयो भयादात्मानमभ्याख्यातारं वा विराधयेत् मारयेदिति । मृषोपदेशकथानकं किञ्चित्स्पष्टीक्रियते कश्चित् परिव्राजकः कंचिद्दरिद्रपुरुषं भणति - किमिति क्लिश्यसि ? त्वामर्थपतिं विधापयामि, कथमित्युपायमाह - अमुकस्य वणिजः सत्कहट्टेऽहमग्रे गत्वोपवेक्ष्यामि त्वयाऽपि पृष्ठतस्तत्रागन्तव्यं, व्याकुलश्चासौ वणिग् भणनीयो-ममोच्छिन्नं सहस्रमेकं 25 द्रम्माणां प्रयच्छ, स च व्याकुलतया न तव प्रत्युत्तरं दास्यति, ततश्च द्वितीयदिने पुनर्गत्वा सामान्येन याचनीयं मम देहि २, स व्याकुलचित्ततया प्रत्युत्तरयिष्यति - प्रतीक्षस्व प्रयच्छामि, प्रतिदिनं चैतत्कर्त्तव्यं, ततो बहुजनेनैतस्मिन् श्रुतेऽन्यस्मिन्दिने भणनीयं - प्रयच्छ यत् मया तव स्थपनिकायां द्रम्माणां सहस्रमेकमंर्पितं, यदा न मन्यते तदा राजकुले नेयोऽहं च साक्षित्वेनोद्देष्टव्यो येन दापयामि, तेन तथैव कृतमिति भावार्थः ॥ ‘ओहारगं हिंसाइएसु न देइ 'त्ति ( १७७ – २) हिंसादिषु कर्त्तव्येषु तन्निवहार्थं 30 द्रव्यं न ददातीत्यर्थः, ‘हिंसाई न देइ 'त्ति क्वचित्पाठ: - तत्र हिंस्राणि खड्गकुन्तादीनि प्रहरणानि आदिशब्दात्तेषां स्वगृहे भोजनादिकं च न ददातीति । आयोगस्थानानि - तत्कराणां क्षात्रखननादि ६ ५ ३० ३६ १० ३६० २१६ १० २१६० १५९६ ५ ६४८० ७७७६ १ ७७७६ १६८०६ 5

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356