Book Title: Arhat Vachan 2000 01
Author(s): Anupam Jain
Publisher: Kundkund Gyanpith Indore

View full book text
Previous | Next

Page 57
________________ अद्य देशविदेशानां धार्मिक सामाजिकार्थिक राजनैतिक पर्यावरणवेत्तार: महापुरुषा: वैज्ञानिका: अपि च शोधकार्ये: सप्रमाणं मुक्तकंठै: शाकाहारस्य माहात्म्यं स्वीकुर्वन्ति।' मधु मधुमक्षिकाणां वमन: भवति। मधुनिर्माण प्रक्रियायां तासां समूहानां अंडानां नाश: भवति। मधु यथार्थत: त्रसजीवानां कलेवराणां पुजं भवति। अत: हिंस्य: अभक्ष्य: च भवति। अस्य एकबिन्दुग्रहणात् सप्तग्रामदाह समं पापं भवति। 2 ___ गूलरवटप्लक्षकठूमरपिप्लादि पंचोदुम्बर फलेषु असंख्य जीवराशि: अस्ति य: प्रत्यक्ष: परिलक्षितोऽस्ति। अत: हिंस्य अभक्ष्य: च सन्ति फलान्येतानि। हिंसानृतस्तेय कुशीलपरिग्रहाश्च पंचपापानि हिंसाया: भूतानि सन्ति। आत्मनि रागादि विकाराणां उत्पत्ति: हिंसा भवति। यथाहि अमृतचन्द्राचार्येणापि उक्तं - अप्रादुर्भाव: खलु रागादीनां भवत्यहिंसेति। तेषामेवोत्पत्ति: हिंसेति जिनागमस्य संक्षेपः।। एतदृष्ट्या अप्रियवचनानि हिंसायामेव गर्भितानि स्तेयकुशीलपरिग्रहेषु परवस्तु स्तेयस्य, ग्रहणस्य अधिकारस्य, परपीडनस्य च भावः भवति। अत: हिसा भवति। अपि च हिंसकस्य हृदयेऽपि राग लोभक्लेशादि भावनानां उत्पत्तिः भवति या स्वहिंसा भवति। एतेषां पापानां समाधान अहिंसासत्य - अस्तेय ब्रह्मचर्य- अपरिग्रह व्रतानां पालनमेवास्ति। सूक्ष्मदृष्ट्या अहिंसाया: परिपालनमेवास्ति। रात्रिभोजनत्यागेऽपि अहिंसाया: विराटदृष्टि: वर्तते। रात्रिभोजने हिंसाया: संभावना अधिक वर्तते। दिने सूर्यस्य नीललोहित किरणैः ऊष्मण: प्रभावेन च वायुमण्डलस्था: रोगोत्पादका:जीवाणव: म्रियन्ते निष्क्रियन्ते वा। 23 स्वास्थ्यदृष्ट्या सुश्रुतसंहितायां चरकसंहितायां आयुर्वेद विषयक ग्रंथेषु च भोजनान्ते शीघ्रं शयनं निषिद्धम्। मार्कण्डेयऋषिणोक्तं अस्तंगते दिवानाथे आपो रूधिरमुच्यते। अन्नं मांसं समं प्रोक्तं मार्कण्डेय महर्षिणा ।। अपि च महाभारते, मार्कण्डेयपुराणे, कूर्मपुराणे, धर्मशास्त्रीयग्रंथेषु पुराणेष्वपि रात्रिभोजनस्य निषेधं स्वीकृतमस्ति। 24 वस्त्रगालित: जलपानं श्रावकेण कर्त्तव्म्। 25 गालितं तोयमप्युच्चैः सम्मूछति मुहूर्ततः। 26 अगालिते जले असंख्या: त्रसजीवा: सन्ति। ये जलेन सह उदरे प्रविश्य म्रियन्ते अथवा जीवित्वा वर्धन्ते। यस्मात् नेहरूआ, हैजा -मोतीझरा - अतिसार नेत्ररोग प्रभृतय: विविधा व्याधय: प्रसरन्ति। 27 जलगालनस्य अष्टचत्वारिंशत् कलोपरान्त तस्मिन् पुन: जीवोत्पत्तिः भवति। अत: जलगालनस्य पश्चात् जलं समुष्णीकृतं प्रासुकं करणीयम्। जैनाचारे क्रियाकोशनामकग्रंथे जलशुद्धेः तकनीकस्य विस्तृतं वैज्ञानिक वर्णनमस्ति। अत: जीवसंरक्षण स्वास्थ्य संरक्षणयोः दृष्ट्या जलगालनमेव वरमस्ति। अष्टाङ्गासंग्रहेऽपि लिखितं घनवस्त्रपरिस्रावै: शुद्धजन्त्वभिरक्षणम्। देवपूजा गुरूपासना स्वाध्यायसंयमतपदानानि चेति श्रावकस्य षडावश्यका: 28 कर्त्तव्या: सन्ति। देवपूजाया: सम्यग्दर्शनम् निर्मलं भवति। स्वाध्यायात सम्यग्ज्ञानं विकसति। गुरूपासनासंयमतपोदानेभ्यः सम्यक्चारित्रे विशुद्धता आयाति। षडावश्यक कर्त्तव्यना पालनाय सम्यग्दर्शन सम्यग्ज्ञान सम्यक्चारित्रानां संपोषणं संवर्धनं च भवति। आध्यात्मोन्मुखाय एतानि प्राथमिकसोपानानि सन्ति। मुक्तिपथसोपानस्वरूपा एकादशप्रतिमाएँ - पाक्षिकश्रावकस्य एतासां प्रतिज्ञानां पालनं यदा कोऽपि श्रावक: निष्ठापूर्वकं करोति तदा स नैष्ठिक:श्रावक: कथ्यते। जैनाचारे श्रावकस्य व्यक्तित्वविकासाय क्रमश: एकादश श्रेण्यः प्रतिमारूपेण अर्हत् वचन, जनवरी 2000 55

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104