Book Title: Arhat Vachan 2000 01
Author(s): Anupam Jain
Publisher: Kundkund Gyanpith Indore

View full book text
Previous | Next

Page 55
________________ अर्हत् वचन कुन्दकुन्द ज्ञानपीठ, इन्दौर वर्ष - 12, अंक - 1, जनवरी 2000, 53 - 60 जैनधर्मे आचारदृष्टि: -संगीता मेहता ** आचार जीवन का मेरुदण्ड है। जैन धर्म में व्यक्तित्व के उत्तरोत्तर विकास की दृष्टि से श्रावक एवं श्रमणाचार संहिता का विधान है। जैनाचार संहिता वैज्ञानिक है। यह मानव को स्वस्थ तथा आचार विचारों को विकसित कर नि:श्रेयस का पथ प्रशस्त करती है। प्रस्तुत आलेख में इसी का विस्तृत विवेचन अन्तर्राष्ट्रीय सस्कत वर्ष के सन्दर्भ में संस्कृत भाषा में किया गया है। -सम्पादक आचारस्य महत्वम् आचार: जीवनस्य मेरुदण्डोऽस्ति। श्रुतकेवलिभद्रबाहु वेदव्यास मनु प्रभृतिभिर्मनीषिभिः कथितः आचार: अङ्गानां सार:।' सर्वागमानामाचार: प्रथमं परिकल्प्यते। आचार: प्रथमो धर्म:।' आचार प्रभवः धर्म:।' तीर्थंकर महावीरस्य वाणी आचारांग सूत्रे निगदिता यथा - अणाणाए एगे सोवट्ठाणा आणाए एंगे निरुवट्ठाणा एतं तेमा होउ, एतं कुसलस्स दस्सणं। आचारस्य माहात्म्यविषये वैदिकमहर्षिभिः कथितम - आचाराल्लभते ह्यायुराचारादीप्सिता: प्रजा: आचाराद्धनमक्षय्यमाचारों हन्त्यलक्षणम्।' आचारात्प्राप्यते विद्या वर्धते आय: कीर्तिश्च। आचारात्फलते धर्ममाचारात् फलते धनम्। आचाराठ्ठियमाप्नोति आचारो हन्त्यलक्षणम्॥' आचार शुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ चित्तैकाग्रता तत: साक्षात्कारः। सर्वस्य तपोमूलमाचार जगृहुः परम्। अपि चोक्तं आचारहीनं न पुनन्ति वेदाः। एतासामुक्तीनां सारो यत् जीवने आचार एव सर्वोपरि भवति। अत: आचार: मानवतायाः श्रृङ्गारोऽस्ति। जैनधर्मे आचार: जैन धर्मे निःश्रेयस: पंथा आचार एवास्ति। तीर्थकरा: धर्म मार्गे प्रवर्त्य मानवाय शक्तिसमार्थ्यानुसार आचरणाय चतुर्विधसंघस्य व्यवस्थामकुर्वन्। व्यक्तित्वस्योत्तरोत्तर विकास दृष्ट्या संघ: श्रावकरूपेण श्रमणरूपेण च द्विविधः अस्ति। लिङ्गभेदेन शारीरिकक्षमताया: च आधारेण श्राविका आर्यिका च इति चतुर्विधमस्ति। एतेषां श्रावक श्राविकयोराचार: समानं भवति श्रमणार्यिकयोराचारश्च समानं भवति। गुणदृष्ट्या श्रमणस्य मुनेः वा स्थानं सर्वोपरि अस्ति। गृहं परित्यज्य दीक्षां धृत्वा मोक्षमार्गस्य साधक: 'श्रमण' इति कथ्यते। निर्बलताया अन्यकारणात् वा गृहे स्थित्वा पारिवारिक - सामाजिक - राष्ट्रीय दायित्वानि निर्वाहयित्वा मुक्तिं उद्दिश्य आराधनां य: करोति स: श्रावकः वर्तते। स्वसाधनया प्रेरितैः जैनाचार्यः श्रावकश्रमणाभ्यां च आचारसंहिताया: निर्माण कृतम्। तद् श्रावकाचारश्रमणाचारयोः संज्ञया अभिहितम्। एषा आचारसंहिता मानवान् स्वस्थं, आचारविचारान् च विकासयित्वा नि:श्रेयस: पंथानं प्रशस्तम् करोति। * दशम विश्व संस्कृत सम्मेलन, बैंगलोर में प्रस्तुत शोध पत्र । ** सहायक प्राध्यापिका - संस्कृत, शास. कला एवं वाणिज्य महाविद्यालय, इन्दौर।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104