Book Title: Arhat Vachan 2000 01
Author(s): Anupam Jain
Publisher: Kundkund Gyanpith Indore

View full book text
Previous | Next

Page 58
________________ निर्दिष्टाः। यानि सोपानानि अपि कथ्यते। येष्वारुह्य श्रावक: आत्मशुद्धेः वृद्धिं करोति। स निर्दोष - निरतिचाररुपेण व्रतान् पालयति। श्रावकाय मुक्तिपथस्य सोपान - स्वरूपा एकादश प्रतिमा: 23 इत्थं - सम्यग्दर्शनस्य सुदृढाधारे अवस्थित: 'दर्शनप्रतिमा' धारयन् श्रावक देवशास्त्रगुरो: वन्दन करोति। सः सप्तव्यसनं त्यक्त्वा अष्टमूलगुणान् पालयित्वा दोषरहित सम्यग्दर्शनं धारयति। 'व्रतप्रतिमां' धारयन् श्रावक: अतिचाररहितं द्वादशव्रतान् पालयति। येषु पंचाणव्रतानि त्रीणिगुणव्रतानि चत्वारि शिक्षाव्रतानि सन्ति। अणुव्रतानां प्रथमः 'अहिंसा' अस्ति। जैनाचारे अहिंसाया: क्षेत्र अतिव्यापक अस्ति। प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा। संकल्पात कृतकारितमननात्योगत्रयस्य स्थलहिंसाया: त्याग: अहिंसाणुव्रतः अस्ति। 31 रागादीनामुत्पत्ति. हिंसा अप्रार्दुभावश्चाहिंसा अस्ति। 32 हिंसाहिंसा भावेषु निर्भरा। कृषिकार्ये लग्न: जीवघातकुर्वन् कृषक: अहिंसक: भवति किन्तु धीवर हिंसक भवति। यत: कृषकस्य भाव: अन्नोत्पादनं भवति तथा धीवरस्य भावः गृहेऽपि हिंसैव भवति। अत: कृषक: अहिंसक: धीवर: हिंसकश्च भवति। आचार्य उमास्वामिनोक्तं - प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा। 34 दौस्थ्यं प्रकर्मानुचितक्रियाकारिता, कर्त्तव्यहानि: अजितेन्द्रियत्वं इति पंचविधत्वं प्रमत्तता। 35 श्रावकेन चतुर्विध हिंसा सम्भाव्यन्ते आरम्भी उद्योगी विरोधी संकल्पी च। दैनिक कार्येषु आरम्भी हिंसा भवति, आजीविकार्थ उद्योगी हिंसा भवति। आत्मरक्षार्थ देशधर्मरक्षार्थ च विरोधी हिंसा भवति। गृहस्थान् त्रिविधहिंसा क्षम्या किन्तु संकल्पी हिंसा कदापि क्षम्या नास्ति। अत: स: संकल्पी हिंसां त्यजति किन्तु शेष हिंसा: स्वरूचिस्थितिविवेकानुसारं त्यजति। प्रमादपरिस्थितिवशात् व्रतमर्यादाया: उल्लंघनं अतिचारा: अभिहिताः। प्रतिव्रतानां पञ्चपञ्चातिचारा: सन्ति। 36 अङ्गानि छेदनं भेदनं पीडनं अतिभारारोपणं आहारवारणं च इति पंचाहिंसाणुव्रतस्य अतिचारा: सन्ति। - जैन संस्कृति: पृथिव्यपतेजोवायुवनस्पतिषु जीवत्वं स्वीकरोति। वानस्पतिक जगत अस्मान् न केवलं भोज्य सामग्री ददाति अपितु भूमि - वायु - ध्वनि प्रदूषणादपि रक्षति। 7 अहिंसाया: प्राणीजगत् - वनस्पतिजंगत: संरक्षण अस्माकं कर्त्तव्यमस्ति। वाणी संयम हेतोः 'सत्याणुव्रतमस्ति'। असदभिधानमनृतम् 8 असत् चिन्तनं असद्भाषणं - असदाचरणं अपि असत्यमेवास्ति। असदेव सत् करणाय सत्याणुव्रतस्य विधानमस्ति। आचार्य समन्तभद्रेणोक्तं 'स्थूलमलीकं न वदति न परान वादयति सत्यमपि विपदे। 39 मानवस्य समस्त व्यवहारः वचनैः संचालितः। अत: गर्हित - सावद्य . अप्रियञ्च त्रिविधं असत्यवचनं त्याज्यम। हित - मित - ग्राह्य - वचनं वदनीयम्। ५० परिवादरहोभ्याख्या - पैशुन्यं कूटलेखकरणं न्यासापहरणं च सत्याणुव्रतस्यातिचारा: सन्ति। सत्यव्रतपालनात् मनोवचनकर्मसु एकरूपता आयाति दुर्भावना च नश्यति। अतिचारान् दूरीकृत्य यदि सत्यपालनं भवेत् तर्हि शेयरघोटाला: हवाला - चाराकाण्डप्रभृति दुष्प्रकृतयः देशस्य मूलं चालयितुं न शक्नुवन्ति। सम्प्रति लोभवश:मनुष्य: चौर्यकर्माणिरतः अभवत्। निहितं वा पतितं वा सुविस्मृतं वा परस्वमविसृष्टं वस्तु यः न हरति न च ददाति तत् अचौर्याणुव्रतमस्ति। चौरप्रयोग चौरार्था दानविलोपसदृशसन्मिभा: हीनाधिकविनिमान पञ्चास्तेये व्यतीपाताः। एतदृष्ट्या वनानां अवैधहननं, अभयारण्ये वन्यपशुनामाखेट: दूषित वायूत्सर्जक वाहनोपकरण प्रयोगा:, उत्कोचस्यादानप्रदानं च स्तेयकर्माणि सन्ति। यौतुकदाहप्रभृति कुकृत्यस्य मूले लोभवृत्ति: अनुचितरीत्या धनप्राप्त्यै कामनास्ति। एतदपि अर्हत् वचन, जनवरी 2000 56

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104