Book Title: Arhat Vachan 2000 01
Author(s): Anupam Jain
Publisher: Kundkund Gyanpith Indore
View full book text
________________
चौर्यकर्म एवास्ति। अचौर्य व्रतपालनात् सामाजिकाधिकारस्य सुरक्षा भवति। व्यक्ते: समाजस्य राष्ट्रस्य च आर्थिक पर्यावरणम् शुद्धम् भवति।
_ मैथुनमब्रह्म। 42 समग्र दोषाणां पोषणं सद्गुणानां ह्रास: च इत: एव प्रारभ्यते एतस्मात् निवृत्यैः उपाय: ब्रह्मचर्य व्रतमस्ति। आत्मसाधनायां प्रवृत्ति: ब्रह्मचर्यमस्ति। एतस्मिन् ब्रह्मचर्येण साधनायात्राया: आरम्भ: मनुष्य: गृहस्थजीवनेन करोति। वंशपरम्पराया: पोषणाय गृहस्थ: स्वदारसंतोषव्रतरूपं मर्यादितं ब्रह्मचर्यं पालयति। समन्तभद्राचार्येणोक्तं 'स तु परदारान् गच्छति न परान् गमयति च पापभीतैर्यत् सा- परदारनिवृत्ति: स्वदारसंतोषणामपि।' 43 स्त्रीणां कृते स्वपतिसंतोषव्रतमस्ति। आत्मनियमोऽयं व्रत: । अत: स्वपुरुष स्वदारमपि व्रती अमर्यादितभोगात् स्वं नियंत्रितं करोति। अन्यविवाहाकरण अनङ्गक्रीडा विटत्व अतितषा इत्वरिकागमनं चास्य पंचातिचारा: सन्ति। ५ बलात्कार जनसंख्यावृद्धि एड्स प्रभृति वैयक्तिक - समाजिक - शारीरिक व्याधीनामुपाय: एतत्वतमेवास्ति। एतत्व्रतं आचार शुद्धेः नैतिक साधना अस्ति विचार शुद्धेः स्वेच्छया स्वीकृत प्रतिज्ञा चास्ति।
___अनर्थो हि कारणं परिग्रहस्य। मूर्छा परिग्रहः । 45 मूछाया: तात्पर्य आसक्तिः। आसक्ति जड़ चेतन लघुदीर्घातबाह्य वस्तूनां प्रतिमोह: ममत्वमस्ति आसक्त्यैव च परिग्रहः। वस्तुधनधान्यादि परिग्रहः दशविधः। १० लोभवशात् मनुष्यः परिग्रहसंचयं करोति। संचितपरिग्रहस्य रक्षार्थं स: हिंसानृतस्तेयकुशीलादि पापान् प्रति प्रवर्तते। आसक्ते: नियंत्रणं पदार्थानां सीमानिर्धारणं च परिग्रह परिमाणव्रतं अस्ति। अतिवाहनातिसंग्रह विस्मय लोभातिभारवहनानि इति पंच विक्षेपाः। एतद्वृतं एकत: आवश्यकता आकांक्षां च नियंत्रयति अपरत: अनावश्यक संग्रहस्य निग्रहोऽपि करोति। समृद्धजनै: आवश्यकतायाः अधिकवस्तनां त्यागः दानाय साधनहीनानां हिताय च कर्यः तर्हि समाजे आर्थिक विषमताया: निराकरणम् सम्भवति।
___हिंसानृतस्तेयकुशीलपरिग्रहादि पापेभ्य: निवृत्तेः सामर्थ्य अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहादि पंचाणुव्रतेषु एवास्ति। एते त्यागस्य प्राथमिक स्तम्भाः सन्ति अत: मूलगुणा: मूलव्रतानि वा कथ्यन्ते। एतेषां संपोषणसंरक्षणसंवर्धन हेतो: सप्तगुणवतशिक्षाव्रतानि च सन्ति। एते उत्तरगुणा: उत्तरव्र तानि वा कथ्यन्ते। गुणव्रता: अणुव्रतानां उपकारका: सन्ति: । "
मनुजस्याभिलाषा: अनन्ताः सन्ति। अत: स: कार्यव्यापारस्य विस्तारं देशे विदेशे करोति। तत: कार्यक्षेत्रस्य सीम्न: निर्धारणं आवश्यक भवति। अत: जैनाचारे दिग्व्रतस्य विधानमस्ति। अस्य व्रतस्य साधक: श्रावक: सर्वासु दिशासु गमनागमनस्य मर्यादाया: निर्धारणं करोति। .
दिग्वतस्य मर्यादान्तर्गते येभ्य: वस्तुभ्य: धर्म: यश: सुखं लाभ: च न लभ्यते, ते अनर्थका: सन्ति। तेषां त्याग . एव वरमस्ति। इदमेव अनर्थदण्डव्रतम् अस्ति। पापोपदेश हिंसादानापध्यानदु:श्रुतिप्रमादचर्या: पंचानर्थदण्डव्रतानि सन्ति।
एकदैव सेवनयोग्यपदार्थाः भोगा: कथ्यते यथा भोजन गंध पुष्पादयः। पुन:पुनर्भोगयोग्यपदार्थाः उपभोगा: कथ्यन्ते। एतेषां सीमानिर्धारणं भोगोपभोगपरिमाणव्रतमस्ति। 49 आचार्य उमास्वामिना एतव्रतं उपभोगपरिभोग परिमाण व्रतम् कथितम्। 50 एतव्रतं भोजनं कर्म च द्विविधं एतस्मात् व्रतात् भोज्यपदार्थानां मर्यादाया: लोलुपताया: नियंत्रणं भवति। व्यापारमर्यादाया: पापयुक्त कार्यव्यापाराणां त्याग: भवति।
अणुव्रतानि शिक्षया अभ्यासेन वा यानि महाव्रतानि प्रति नयन्ति तानि शिक्षाव्रतानि सन्ति। दिग्व्रतस्य मर्यादाया: प्रत्यहं प्रतिसंहारो देशावकाशिक शिक्षाव्रतम् स्यात्।
समग्रपदार्थेषु तटस्थभावः समभाव: एव जैनसाधनाया: लक्ष्यमस्ति। रागद्वेषाभ्यां वैषम्यभावा: जायन्ते। हृदये समभावविकासनाय सामायिक शिक्षाव्रतम् अस्ति। एतस्मिन् श्रावक: निर्धारित काले रागरहितमनसा प्रशमसंवेगादि ज्ञानलाभाय आत्मध्यानं करोति। आत्मिक ‘गुणानां वृद्धिः धर्मभावपोषणाय
अर्हत् वचन, जनवरी 2000
57

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104