Book Title: Anusandhan 2011 12 SrNo 57
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ १४ अनुसन्धान-५७ __ द्वात्रिंशद्व्यञ्जनमय जिनस्तुति श्रीगुरुभ्यो नमः । कखगघङ चछजझ टठडढण तथदधन पफबभम यरलव शषसह । अथ द्वात्रिंशयञ्जनानां श्लोककरणकाम्यया लघुदीर्घस्वरदानपूर्वं जिनस्तुति प्रतिपिपादयुषुरहं कोविदविनोदायानुष्टुब्बन्धं रचयामि । यथा कुखगाऽघं डचाछाऽज झटढेडढणातिथिः । दधानः पां फबाभामो यरलावश षासहीः ॥ अस्य व्याख्या - हे कुखग ! कौ पृथिव्यां, खगः सूर्यस्तत्तुल्य ! । यथा सूर्यः पृथ्वी प्रकाशयति तथा भगवान् केवलज्ञानेन भूमावुद्योतकरः । हे ङ चाछ! डा प्राणः बलं, चा शोभा, ताभ्यां छो निर्मलः, नित्यो वा । जिनस्य नित्यं तारुण्याद् बलशोभायास्तदवस्थत्वापत्तेः । ङः प्राण इति सौभरिमुनिकृत[नाम]मालायां। चा स्त्री शोभा । 'छस्त्रिष्वयं निर्मले नित्ये' - इत्युरगदण्डाधिपकृत[नाम]मालोक्तत्वात् । हे जिन ! त्वं अघं पापं अज क्षिप । हे झटठेड ! झः प्रतापस्तेन टोऽर्कः, ठः शम्भुस्ताभ्यामीड्यते स्तूयते इति झटठेड । अत्र उणादये(दौ) अः प्रत्ययः । झः प्रतापे । 'टः पुमान् करटे धूमे तापेऽर्क' - इति । ठः शङ्करे - इत्युरगदं० । हे यरलावश ! यश्चन्द्रः, रः सूर्यः, ला लक्ष्मीः, एते सर्वे वशे यस्य स यरलावशस्तस्य सम्बो० । सर्वेषां नमनीयत्वात् । 'यः सूर्ये तारके चन्द्रे। रः सूर्येऽग्नौ धने कामे । ला च लक्ष्मीर्लमम्बरे' - इति विश्वशम्भूक्तिः। त्वं किंलक्षणः ? ढणातिथिः । ढः स्वभावेन, णा कृपा, सा अतिथिर्यस्य सः । यतः कृपालोश्चेतोगृहे कृपा आयाति । यत उक्तं – 'सरिसा सरिसेहिं रच्चंति' इति वाक्योक्तेः । 'ढः स्वभावे, विमत्सरे' इति विश्वशम्भूक्तिः । ‘णा धेनुनासाकृपासु च'- इति उरगदं० । त्वं किं कुर्वाणः ? दधानः बिभ्रत् । कां ? पां । पा श्रुतं । 'पा पातरि तथा श्रुते' - इत्येकाक्षरनिघण्टुः । त्वं किल० फबाभामः । फो ज्ञानं तस्य बः समुद्रः । न विद्यते भामः क्रोधो यस्य सोऽभामः । फबश्च अभामश्च फबाभामः । 'फोऽपारदशने देवे न्याये ज्ञाने च' । तथा- 'वो दन्तोष्ठ्यस्तथौष्ठयोऽपि वरुणे वारणे वरे । शोषणे पचने गन्धे वासे वृन्दे च वारिधौ ॥१॥'- इति विश्वशम्भूक्तमालायां । पुनः त्वं किंलक्षणः ? षासहीः । षा रमा तया सहितो ही[:] हर्षस्तद्वान् । लक्ष्मीसहितहर्षवान् इत्यर्थः । यदुक्तम् - 'षा स्त्री रमायां

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135