Book Title: Anusandhan 2008 03 SrNo 43
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 26
________________ अनुसन्धान ४३ कर्मद्वयकृतोपास्तिरमृतास्वादसोदरा । आह्लादसम्पदं धत्ते सेयमालादिनी कला ॥१३३।।४० निर्वातदेशमधिगम्य विधाय लिङ्ग-मूर्ध्वं ततोऽस्य विवरांन्तरमीक्षमाणः । पीठे मनो नयति यत् किल कामरूपे तत् कामरूपमिति कर्म वितीर्णरूपम् ॥१३४॥४१ उत्तानीकृत्य वामं करतलमुपरि न्यस्य पाणिः शरीरं तस्मिन्नारोप्य तस्मादपरमपि शिरः शेखरत्वेन कृत्वा । सार्द्धं देहेन चेतो भ्रमयति मणिपूराख्यचक्रस्य पार्वे प्रोद्यच्छक्त्या समन्तान्नयति च विलयं कर्म तच्छक्तिबन्धम् ॥ १३५॥४२॥११ दिशती सोमतां कर्म-द्वयनाटितपाटवा । दत्ते कारुण्यतारुण्यं कलेयं करुणावती ॥१३६॥४३ ब्रह्मेस्थानाधिष्ठितस्वान्तवृत्ति-लिङ्गस्यान्तर्धातुजं वक्रनालम् । निक्षिप्योर्ध्वं तोयमाकर्षयेद् यत् तत् कर्म स्याद् वक्रनालाभिधानम् ॥१३७॥४४ स्वान्तं सारस्वतान्तर्विदधदँपघनेनोत्कटीभूय जानुद्वन्द्वोज़ कूपरान्तर्द्वयमुपरचयन् सम्पुटीभूतपाणिः । वक्त्रं सम्मील्य जिह्वां नियमयतितरां राजदन्तान्तराले कर्मैतत् सम्पुटी स्याद् विधु-रवियुगलीसम्पुटे साम्यहेतुः ॥१३८॥४५।।१२ कर्मद्वयसमुल्लासि-रसपीयूषसारणिः । आप्यायते नृणामङ्ग-मियमाप्यायिनी कला . ॥१३९॥ ४६ पद्मासनीभूय मनः सुषुम्णा-मार्गे वितन्वत्(द) रसनाग्रशून्या । यल्लम्बिका चुम्बति मन्दमन्दं तल्लम्बिकाकर्म वदन्ति सन्तः ॥१४०॥ ४७ आक्रान्तकेवलिलयस्थितिधाम्नि चित्ते नासान्तवक्त्रविवरैः परमाणुरूपम् । आकृष्य यद् गगनमापिबति प्रकामं प्रोक्तं बुधैस्तदिदमम्बरपानकर्म ॥१४१॥४८॥१३ कर्मत्रयभवद्भूति-परमानन्दसम्पदः । अलंकर्मीणतामेति विकाशाय विकाशिनी ॥१४२॥ ४९ १. ०श्वाससोदरा । २. आज्ञाउपरि ४ । ३. पार्श्वे । ४. नाभौ । ५. आज्ञाउपरि । ६. ललनाचक्रसमीपे । ७. विदधदुपघनेऽप्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88