________________
अनुसन्धान ४३
कर्मद्वयकृतोपास्तिरमृतास्वादसोदरा । आह्लादसम्पदं धत्ते सेयमालादिनी कला
॥१३३।।४० निर्वातदेशमधिगम्य विधाय लिङ्ग-मूर्ध्वं ततोऽस्य विवरांन्तरमीक्षमाणः । पीठे मनो नयति यत् किल कामरूपे तत् कामरूपमिति कर्म वितीर्णरूपम्
॥१३४॥४१ उत्तानीकृत्य वामं करतलमुपरि न्यस्य पाणिः शरीरं तस्मिन्नारोप्य तस्मादपरमपि शिरः शेखरत्वेन कृत्वा । सार्द्धं देहेन चेतो भ्रमयति मणिपूराख्यचक्रस्य पार्वे प्रोद्यच्छक्त्या समन्तान्नयति च विलयं कर्म तच्छक्तिबन्धम् ॥ १३५॥४२॥११ दिशती सोमतां कर्म-द्वयनाटितपाटवा । दत्ते कारुण्यतारुण्यं कलेयं करुणावती
॥१३६॥४३ ब्रह्मेस्थानाधिष्ठितस्वान्तवृत्ति-लिङ्गस्यान्तर्धातुजं वक्रनालम् । निक्षिप्योर्ध्वं तोयमाकर्षयेद् यत् तत् कर्म स्याद् वक्रनालाभिधानम् ॥१३७॥४४ स्वान्तं सारस्वतान्तर्विदधदँपघनेनोत्कटीभूय जानुद्वन्द्वोज़ कूपरान्तर्द्वयमुपरचयन् सम्पुटीभूतपाणिः । वक्त्रं सम्मील्य जिह्वां नियमयतितरां राजदन्तान्तराले कर्मैतत् सम्पुटी स्याद् विधु-रवियुगलीसम्पुटे साम्यहेतुः ॥१३८॥४५।।१२ कर्मद्वयसमुल्लासि-रसपीयूषसारणिः । आप्यायते नृणामङ्ग-मियमाप्यायिनी कला .
॥१३९॥ ४६ पद्मासनीभूय मनः सुषुम्णा-मार्गे वितन्वत्(द) रसनाग्रशून्या । यल्लम्बिका चुम्बति मन्दमन्दं तल्लम्बिकाकर्म वदन्ति सन्तः ॥१४०॥ ४७ आक्रान्तकेवलिलयस्थितिधाम्नि चित्ते नासान्तवक्त्रविवरैः परमाणुरूपम् । आकृष्य यद् गगनमापिबति प्रकामं प्रोक्तं बुधैस्तदिदमम्बरपानकर्म ॥१४१॥४८॥१३ कर्मत्रयभवद्भूति-परमानन्दसम्पदः । अलंकर्मीणतामेति विकाशाय विकाशिनी
॥१४२॥ ४९ १. ०श्वाससोदरा । २. आज्ञाउपरि ४ । ३. पार्श्वे । ४. नाभौ । ५. आज्ञाउपरि । ६. ललनाचक्रसमीपे । ७. विदधदुपघनेऽप्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org